आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)
Aryabhatiya of Aryabhata with Hindi Commentary
आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा
पृष्ठ 62, कुल 134 में से
संदर्भ में पढ़ें२६ गीतिकापादः ॥ भवति । राशिद्वयस्य समस्तजीवात्र जीवेत्युच्यते । न पठितार्धज्या । एकराशे पठितार्धज्या विष्कम्भार्धेन दलेन तुल्येत्यर्थः ॥ त्रैराशिकेनेष्टवृत्तस्य परिधितं व्यासकल्पनार्थं व्यासतः परिधिकल्पनार्थञ्च प्रमाणफले दर्शयति ॥ भा०-परिधि के छठे भाग के दो राशियों की जो जीवा (ज्या) वह व्यास के आधे की बराबर होती है। यहां जीवा से पूर्ण जीवा (पूर्णज्या) समझना क्योंकि आचार्य ने यहां अर्धज्या को पढ़ा नहीं ॥ ९ ॥ चतुरधिकं शतमष्टगुणं द्वाषष्टिस्तथा सहस्राणाम् । अयुतद्वयविष्कम्भस्यासन्नो वृत्तपरिणाहः ॥ १० ॥ चतुरधिकं शतं यत्तदष्टगुणम् । सहस्राणां द्वाषष्टिश्च। एतदयतद्वयविष्कम्भस्य वृत्तस्यासन्नः परिणाहः । नतु निश्शेष इत्यर्थः । परिणाहः परिधिः । वृत्तस्य परि- णाहः । परिधिव्यासयोरेकस्यैव हि निश्शेषता सम्भवति । इतरस्य सावयवता सम्भवत्येव । दसागन्यहिद्विष्टट्संख्यः परिणाहोऽत्र कीर्तितः । गीतिकायां या अर्धज्या उक्तास्तास्सर्वो अपि युक्तित एकराश्यर्धज्याविष्कम्भार्धयोर्ज्ञातयोरस- तोस्साध्यास्स्युः । तासां सिद्धयर्थमिह परिधियड्भागस्य समस्तज्याप्रदर्शनं परि- धिव्यासज्ञानसाधनभूतफलप्रमाणयोः प्रदर्शनञ्च कृतम् । तत्रैकराश्यर्धज्यायां वक्त- व्यायां द्विराशिसमस्तज्याप्रदर्शनन्तु । क्वचित्समस्तज्यामानीयार्धीकृत्यार्धज्या सा- ध्यत इति प्रदर्शनार्थं परिधितो विष्कम्भानयन एवं त्रैराशिकम् । यदि चतुर- धिकं शतमष्टगुणं द्वाषष्टिस्तथा सहस्राणामित्युदितपरिधेरयुतद्वयं विष्कम्भः । तदा चक्रकलापरिमितपरिधेः कियान्विष्कम्भ इति भचक्रस्य विष्कम्बलब्धिः । तदर्थमिह त्रिज्यालब्धिर्भवति । एवं विष्कम्भोऽपि युक्तितस्सिध्येत् । सा युक्ति- र्महाभास्करीयव्याख्यायां सिद्धान्तदीपिकायां विस्तरेण प्रदर्शिता। एकराश्यानयने युक्तिस्त्विह प्रदर्श्यते । व्यासार्धार्धं नयेत्केन्द्रात् सौम्यप्राक्सूत्रयोर्द्विधा । तदग्राभ्यां परिध्यन्तं सूत्रे प्राक्सौम्ययोर्नयेत् ॥ प्रागायतं तयोः कोटिर्भुजान्यदिति कल्प्यते । गोलपादं भवेत्ताभ्यां त्रिधा खण्डितमैशगम् ॥ कोट्याग्रात्पूर्वसूत्रान्तं सौम्यन्तञ्च भुजाग्रतः । द्वे रेखे बाहुकोटी ते कोटिबाह्वोस्तु पूर्वयोः ॥ व्यासार्धार्धसमे ते स्तस्तयोः कृत्वोर्द्वयोः पुनः । निजोत्क्रमज्यावर्गेण युतयोर्यत्पदद्वयम् ॥ समस्तज्याद्वयं तद्द्विनिजचापद्वयस्य तु ।