आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)
Aryabhatiya of Aryabhata with Hindi Commentary
आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा
पृष्ठ 68, कुल 134 में से
संदर्भ में पढ़ें३२ गीतिकापादः ॥ शङ्कुगुणं शङ्कुभुजाविवरं शङ्कुभुजयोर्विशेषहृतम् यल्लब्धं सा छाया ज्ञेया शङ्कोस्स्वमूलाद्धि ॥ १५ ॥ शङ्कुरिष्टशङ्कुः। भुजा दीपयष्टिः। तयोर्विवरं अन्तरालभूमिः। तां शङ्कु- शङ्कून्नतिमानेन निहत्य। शङ्कुभुजयोर्विशेषेण शङ्कून्नतिहीनदीपोन्नत्य वि- भजेत्। तत्र लब्धं तस्य शङ्कोश्छाया भवति। स्वमूलादुत्पन्नच्छायामानं भवति उदाहरणम् । द्वात्रिंशदङ्गुला दीपोन्नतिश्शङ्कुरिनाङ्गुलः। दशाङ्गुला तद्विवरे भूमिश्च्छायात्र कीर्त्यताम् ॥ दीपोन्नतिः ३२। शङ्कून्नतिः १२। तयोरन्तरालभूः १०। शङ्कुभुजयोर्विशे- शङ्कून्नतिहीनदीपोन्नतिः । २० । लब्धं छायामानम् ६ ॥ अत्र त्रैराशिकसिद्धि- दीपाग्राच्छङ्कुमस्तकप्रापि कर्णसूत्रं भूम्यन्तं प्रसारयेत्। अत्र क्षेत्रद्वयं भवति तयोः प्रथमे दीपमूले शङ्कुमानं हित्वा य ऊर्ध्वभागश्शिष्यते स भागो भुजा भुजायाश्शङ्कुदीपान्तरालभूतुल्या कोटिः। तदा शङ्कुभुजायाः का कोटिरिति शङ्कुमुलकर्णभूयोगयोरन्तरालकोटिसिद्धिः। सा हि तस्य शङ्कोश्छाया भवति। इति स्थानद्वयस्थापितसमशङ्कुद्वयच्छायाभ्यां छायाग्रयोरन्तरेण च दीपभुजानय- दीपमूलच्छायाग्रयोरन्तरालानयनञ्चाह । भा०:- इष्ट शंकु और भुज (दीपयष्टि) के अन्तर को अन्तराल (बीच की जगह भूमि कहते हैं। उस अन्तराल भूमि को शंकु की उन्नति मान से गुणा करे और शंकु मान को भुजा में से घटाकर, फल जो विशेष बची हुई-दीपोन्नति-उसं भाग देवे, भागफल छाया मान होगा। उदाहरण जैसे-दीप की उन्नति ३२, शं- की उन्नति १२ और उस की अन्तराल भूमि १० है, तो छाया मान क्या होगा अब ३२ में से १२ को घटांथा तो शेष २० रहा और १२x१०=१२० में २० क भाग दिया तो ६ मिला, यही छाया मान हुआ ॥ १५ ॥ छायागुणितं छायाग्रविवरमनेन भाजिता कोटी । शङ्कुगुणा कोटी सा छायाभक्ता भुजा भवति ॥ १६ ॥ दीपादिक्सूत्रगतयोश्शङ्कोश्छाययोरग्रे यत्र भवतस्तत्स्थानयोरन्तराल तयोश्छाययोरेकया निहत्य । जनेन छायाह्रासेन छाययोरन्तरतुल्येन विभजेत् • तत्र लब्धं कोटी भवति । या छाया गुणकारत्वेन परिगृहीता । तदग्रदीपमूल योरन्तरालभूमिरित्यर्थः । सा कोटी शंकुगुणिता गुणकारत्वेन परिगृहीतय