भारतकोश
आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)

आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)

Aryabhatiya of Aryabhata with Hindi Commentary

आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा

DevanagariSanskritpublished134 पृष्ठ

पृष्ठ 78, कुल 134 में से

संदर्भ में पढ़ें
पृष्ठ 78

४२ गीतिकापादः ॥ हारक के छेद के साथ गुणा करने पर हार्य ९ हुआ । * " हार्य " के छेद के साथ गुणा किया तो हार ३२ यह हार हुआ । सवर्णकरण न्यास- $\frac{३}{८}, \frac{१}{४}, \frac{१}{३}$ । यहां गुण्यराशि $\frac{३६}{९६}$ गुण $\frac{२४}{९६}$ हर $\frac{३२}{९६}$ इसी प्रकार और भी जानो ॥२७॥ गुणकारा भागहरा भागहरा ये भवन्ति गुणकाराः । यः क्षेपस्सो ऽपचयो ऽपचयः क्षेपश्च विपरीते ॥ २८ ॥ दृश्यराशिनोद्दिष्टराश्यानयने व्यस्तविधिः क्रियते । उद्दिष्टराशौ यो गुण- कारस्स भागहारः । हारो गुणः । क्षेपो ऽपचयः । अपचयः क्षेपस्स्यात् । एवं विपरीते व्यस्तविधौ भवति । अनुक्तमप्यनेनैव सिध्यति वर्गे मूलं मूलीकरणे वर्गीकरणमित्यादि । उदाहरणम् । कश्चिद्द्नः पञ्चभिर्भक्तष्षड्भिर्युक्तः पदीकृतः । एकोनो वर्गितो वेदसंख्यस्स गणकोच्यताम् ॥ दृश्यम् ४ । वर्गीकृतत्वात्पदीकृतः २ । एकोनत्वादेकयुतः ३ । पदीकृतत्वाद्व- र्गितः ९ । षड्भिर्युक्तत्वात्तैर्हीनः ३ । पञ्चभिर्हृतत्वात्पञ्चभिर्गुणितः १५ । त्रिभि- र्गुणितत्वात्त्रिभिर्भक्तः ५ । एष उद्दिष्टराशिः ॥ यत्र बहुवस्संघास्स्युः । तत्रैकैकं संघमपास्य शेषसंघानां संख्याश्च गणितास्स्युः । तत्र सर्वसंख्यानां योगसंख्यान- यनमाह । भा०:—"दृश्यराशि” द्वारा “ उद्दिष्टराशि ” के लाने को “व्यस्तविधि” कहते हैं । उद्दिष्ट राशि में जो गुणाकार, वह भाग हार होता है । हार गुण होता, क्षेप अपचय होता और अपचय क्षेप होता है इसप्रकार विपरीत व्यस्त विधि में होता है । उदाहरण जैसे—दृश्य ४ इस का मूल २, १ कम करने से ३, ३ का वर्ग ९ इसमें से ६; घटाने से ३ । ३ को ५ से गुणा किया तो १५ हुआ इसमें ३ का भाग दिया तो यही उद्दिष्ट राशि हुई ॥ २८ ॥ राश्यूनं राश्यूनं गच्छधनं पिण्डितं पृथक्त्वेन । व्येकेन पदेन हतं सर्वधनं तद्भवत्येव ॥ २९ ॥ राश्यूनं राश्यूनम् । एकैकसंघहीनं संघैक्यं कृत्वा तत्तत्संघयोगं गच्छाख्यं धनं पृथक्त्वेन स्थापितं संघतुल्यस्थानेषु स्थानेषु स्थापितं यत् .तत्पिण्डितं कृत्वा । तेषामैक्यं कृत्वा । व्येकेन पदेन । एकसंघहीनेतरसंख्यया । हरेत्। तत्र लब्धं यत् तदेव सर्वधनं भवति । सर्वेषां संघधनानामैक्यमित्यर्थः । तस्मात्सर्वधनात्पूर्व- स्थापितरासूनसंघधनेष्वेकैकस्मिन्विशोधिते सति शिष्टमेकैकसंघधनं भवति ।