आर्यभटीयम् (आचार्य आर्यभट - परमेश्वर टीका एवं हिन्दी अनुवाद)
Aryabhatiya of Aryabhata with Hindi Commentary
आचार्य आर्यभट (४७६ ई.) / पं. उदयनारायण सिंह द्वारा
पृष्ठ 90, कुल 134 में से
संदर्भ में पढ़ें५४ गीतिकापादः ॥ इन्दूच्चात्प्रभृति यान्युच्चानि मन्दोच्चानि शीघ्रोच्चानि च भवन्ति तेषां यावस्थि- तिः । सा उत्सर्पिणी समा च स्यात् । मध्ये काले यत्रावस्थितिरुच्चानां भवति । तस्मात्प्रदेशादूर्ध्वमधो वा युगाद्यन्तयोरेव स्थितिर्भवतीत्यर्थः । तेन वृत्तभेदा- स्स्यात् वृत्तभेदात् स्फुटभेदस्स्यात् । अतः-काले काले निरूप्य वृत्तसंस्कारः कार्य इत्यर्थः । इति । शास्त्रप्रणयनकालं तत्काले स्ववयःप्रमाणञ्च प्रदर्शयति । भा०:—इस का अर्थ व्याख्याकार ने नहीं किया; इसलिये भटप्रकाशिका में जैसे लिखा है उसी प्रकार-भावार्थ यहां लिखा जाता है, जिस समय प्राणियों की आयु, यश, वीर्य्य आदि की वृद्धि होती है उस काल को “ उत्सर्पिणी ” काल कहते हैं और जिस समय प्राणियों के आयु वीर्य्य आदि का ह्रास होता है, उसे 'अपसर्पिणी' काल कहते हैं । युग के पूर्वार्द्ध को उत्सर्पिणी और अ- परार्द्ध को अपसर्पिणी कहते हैं । युग के मध्यम त्र्यंश को सम काल कहते हैं । आदि और अन्त को ( सुषमा ) दुषमा त्र्यंश कहते हैं, इन सब को “ इन्दू च्चात् प्रभृति प्रतिपत्तव्यम् ” इस वाक्य से क्या अभिप्रेत है सो नहीं ज्ञात होता और न इस पूरे सूत्र से गणित में प्रयोजन जान पड़ता है ॥ ९ ॥ षष्ट्यब्दानां षष्टिर्यदा व्यतीतास्त्रयश्च युगपादाः । त्र्यधिका विंशतिरब्दास्तदेह मम जन्मनो ऽतीताः ॥ १० ॥ इह वर्तमानेऽष्टाविंशे चतुर्युगे चतुर्थागत्रय षष्ट्यब्दानां षष्टिश्च यदा गता भवन्ति । तदा मम जन्मनः प्रभृति त्र्यधिका विंशतिरब्दा गता भवन्ति । वर्त- मानयुगचतुर्थपादस्य षट्छताधिकसहस्रत्रयसम्मितुषु सूर्याब्देषु गतेषु सत्सु त्र- योविंशतिवर्षेण मया शास्त्रमिदं प्रणीतमित्युक्तं भवति । अत्राह प्रकाशिका- कारः । अस्यायमभिप्रायः । 'अस्मिन् काले गीतिकोक्तभगणैस्त्रैराशिकैनानीता ग्रहमध्यमोच्चपातास्स्फुटारस्सुः । इत उत्तरं तथानीतेषु तेषु सम्प्रदायसिद्धस्सं- स्कारः कार्यः । इति । तथाच तच्छिष्यो लल्लाचार्यः । “शाके नखाब्धिरहिते शशिनोऽक्षदस्रै— स्तत्तुङ्गतः कृतशिवैस्तमसंष्षडङ्कैः । शैलाधिभिस्सुरगुरोर्गुणिते सितोच्चा— च्छोध्यं त्रिपञ्चकुहृतेऽभ्रशराग्निभक्ते ॥ स्तम्बेरमाम्बुधिहते क्षितिनन्दनस्य— सूर्यात्मजस्यगुणितेऽम्बरलोचनैश्च ।