भारतकोश
अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)

अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)

Ashtadhyayi Sutrapatha of Maharshi Panini

महर्षि पाणिनि द्वारा

DevanagariSanskritpublished102 पृष्ठ

पृष्ठ 11, कुल 102 में से

संदर्भ में पढ़ें
पृष्ठ 11

द्वितीयाध्याये तृतीयः पादः ११

[वाम स्तम्भः] ३ द्वितीयतृतीयचतुर्थतुर्याण्यन्य- तरस्याम्। ४ प्राप्तापन्ने च द्वितीया। ५ कालाः परिमाणिना। ६ नञ्। ७ ईषदकृता। ८ षष्ठी। ९ याजकादिभिश्च। १० न निर्धारणे। ११ पूरणगुणसुहितार्थसदव्ययतव्य- समानाधिकरणेन। १२ क्तेन च पूजायाम्। १३ अधिकरणवाचिना च। १४ कर्मणि च। १५ तृजकाभ्यां कर्तरि। १६ कर्तरि च। १७ नित्यं क्रीडाजीविकयोः। १८ कुगतिप्रादयः। १९ उपपदमतिङ्। २० अमैवाव्ययेन। २१ तृतीयाप्रभृतीन्यन्यतरस्याम्। २२ क्त्वा च। २३ शेषो बहुव्रीहिः। २४ अनेकमन्यपदार्थे। २५ सङ्ख्याव्ययासन्नादूराधिक- सङ्ख्याः सङ्ख्येये। २६ दिङ्नामान्यन्तराले।

[दक्षिण स्तम्भः] २७ तत्र तेनेदमिति सरूपे। २८ तेन सहेति तुल्ययोगे। २९ चार्थे द्वन्द्वः। ३० उपसर्जनं पूर्वम्। ३१ राजदन्तादिषु परम्। ३२ द्वन्द्वे घि। ३३ अजाद्यदन्तम्। ३४ अल्पाच्तरम्। ३५ सप्तमीविशेषणे बहुव्रीहौ। ३६ निष्ठा। ३७ वाहिताग्न्यादिषु। ३८ कडाराः कर्मधारये। --०-- तृतीयः पादः १ अनभिहिते। २ कर्मणि द्वितीया। ३ तृतीया च होश्छन्दसि। ४ अन्तरान्तरेणयुक्ते। ५ कालाध्वनोरत्यन्तसंयोगे। ६ अपवर्गे तृतीया। ७ सप्तमीपञ्चम्यौ कारकमध्ये। ८ कर्मप्रवचनीययुक्ते द्वितीया। ९ यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी। १० पञ्चम्यपाङ्परिभिः। ११ प्रतिनिधिप्रतिदाने च यस्मात्।