अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
पृष्ठ 23, कुल 102 में से
संदर्भ में पढ़ेंतृतीयाध्याये तृतीयः पादः २३
[वामस्तम्भः] १७८ अन्येभ्योऽपि दृश्यते। १७९ भुवः सञ्ज्ञान्तरयोः। १८० विप्रसम्भ्यो ड्वसञ्ज्ञायाम्। १८१ धः कर्मणि ष्ट्रन्। १८२ दाम्नीशसयुयुजस्तुतुदसिसिच- मिहपतदशनहः करणे। १८३ हलसूकरयोः पुवः। १८४ अर्तिलूधूसूखनसहचर इत्रः। १८५ पुवः सञ्ज्ञायाम्। १८६ कर्तरि चर्षिदेवतयोः। १८७ जीतः क्तः। १८८ मतिबुद्धिपूजार्थेभ्यश्च। --०-- तृतीयः पादः १ उणादयो बहुलम्। २ भूतेऽपि दृश्यन्ते। ३ भविष्यति गम्यादयः। ४ यावत्पुरानिपातयोर्लट्। ५ विभाषा कदाकर्ह्योः। ६ किंवृत्ते लिप्सायाम्। ७ लिप्स्यमानसिद्धौ च। ८ लोडर्थलक्षणे च। ९ लिङ् चोर्ध्वमौहूर्तिके। १० तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्। ११ भाववचनाश्च। १२ अणकर्मणि च।
[दक्षिणस्तम्भः] १३ लृट् शेषे च। १४ लुटः सद् वा। १५ अनद्यतने लुट्। १६ पदरुजविशस्पृशो घञ्। १७ सृ स्थिरे। १८ भावे। १९ अकर्तरि च कारके सञ्ज्ञायाम्। २० परिमाणाख्यायां सर्वेभ्यः। २१ इङश्च। २२ उपसर्गे रुवः। २३ समि युद्रुदुवः। २४ श्रिणीभुवोऽनुपसर्गे। २५ वौ क्षुश्रुवः। २६ अवोदोर्नियः। २७ प्रे द्रुस्तुस्रुवः। २८ निर्भयोः पूल्बोः। २९ उन्योर्ग्रः। ३० कृ धान्ये। ३१ यज्ञे समि स्तुवः। ३२ प्रे स्त्रोऽयज्ञे। ३३ प्रथने वावशब्दे। ३४ छन्दोनाम्नि च। ३५ उदि ग्रहः। ३६ समि मुष्टौ। ३७ परिन्योर्णीणोद्यूताभ्रेषयोः। ३८ परावनुपात्यय इणः। ३९ व्युपयोः शेतेः पर्याये।