अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
पृष्ठ 34, कुल 102 में से
संदर्भ में पढ़ें३४ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) २७ छ च। २८ महेन्द्राद् घाणौ च। २९ सोमाट् ट्यण्। ३० वाय्वृतुपित्रुषसो यत्। ३१ द्यावापृथिवीशुनासीर- मरुत्वदग्नीषोमवास्तोष्- पतिगृहमेधाच्च च। ३२ अग्नेर्ढक्। ३३ कालेभ्यो भववत्। ३४ महाराजप्रोष्ठपदाट् ठञ्। ३५ पितृव्यमातुलमातामह- पितामहाः। ३६ तस्य समूहः। ३७ भिक्षादिभ्योऽण्। ३८ गोत्रोक्षोष्ट्रोरभ्रराजन्यराज- पुत्रवत्समनुष्याजाद् वुञ्। ३९ केदाराद् यञ्ञ्च। ४० ठञ्कवचिनश्च। ४१ ब्राह्मणमाणववाडवाद् यन्। ४२ ग्रामजनबन्धुभ्यस्तल्। ४३ अनुदात्तादेरञ्। ४४ खण्डिकादिभ्यश्च। ४५ चरणेभ्यो धर्मवत्। ४६ अचित्तहस्तिधेनोष्ठक्। ४७ केशाश्वाभ्यां यञ्छावन्य- तरस्याम्। ४८ पाशादिभ्यो यः। ४९ खलगोरथात्। ५० इनित्रकट्यचश्च। ५१ विषयो देशे। ५२ राजन्यादिभ्यो वुञ्। ५३ भौरिक्याद्यैषुकार्यादिभ्यो विधलभक्तलौ। ५४ सोऽस्यादिरितिच्छन्दसः प्रगाथेषु। ५५ सङ्ग्रामे प्रयोजनयोद्धृभ्यः। ५६ तदस्यां प्रहरणमिति क्रीडायां णः। ५७ घञः सास्यां क्रियेति ञः। ५८ तदधीते तद् वेद। ५९ क्रतूकथादिसूत्रान्ताट् ठक्। ६० क्रमादिभ्यो वुन्। ६१ अनुब्राह्मणादिनिः। ६२ वसन्तादिभ्यष्ठक्। ६३ प्रोक्ताल्लुक्। ६४ सूत्राच्च कोपधात्। ६५ छन्दोब्राह्मणानि च तद्विषयाणि। ६६ तदस्मिन्नस्तीति देशे तन्नाम्नि। ६७ तेन निर्वृत्तम्। ६८ तस्य निवासः। ६९ अदूरभवश्च। ७० ओरञ्। ७१ मतोश्च बह्वजङ्गात्।