अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
पृष्ठ 37, कुल 102 में से
संदर्भ में पढ़ेंचतुर्थाध्याये तृतीयः पादः ३७ (वामस्तम्भः) २३ सायञ्चिरम्प्राह्णेप्रगेऽव्ययेभ्यष् ट्युट्युलौ तुट् च। २४ विभाषा पूर्वाह्णा- पराह्णाभ्याम्। २५ तत्र जातः। २६ प्रावृषष्ठप्। २७ सञ्ज्ञायां शरदो वुञ्। २८ पूर्वाह्णापराह्णार्द्रामूलप्रदोषाव- स्कराद् वुन्। २९ पथः पन्थ च। ३० अमावास्याया वा। ३१ अ च। ३२ सिन्ध्वपकराभ्यां कन्। ३३ अणञौ च। ३४ श्रविष्ठाफल्गुन्यनुराधास्वाति- तिष्यपुनर्वसुहस्तविशाखाषाढा- बहुलाल्लुक्। ३५ स्थानान्तगोशालखरशालाच्च। ३६ वत्सशालाभिजिदश्वयुक्तशत- भिषजो वा। ३७ नक्षत्रेभ्यो बहुलम्। ३८ कृतलब्धक्रीतकुशलाः। ३९ प्रायभवः। ४० उपजानूपकर्णोपनीवेष्ठक्। ४१ सम्भूते। ४२ कोशाड् ढञ्। ४३ कालात्साधुपुष्यत्पच्यमानेषु। (दक्षिणस्तम्भः) ४४ उप्ते च। ४५ आश्वयुज्या वुञ्। ४६ ग्रीष्मवसन्तादन्यतरस्याम्। ४७ देयमृणे। ४८ कलाप्यश्वत्थयवबुसाद् वुन्। ४९ ग्रीष्मावरसमाद् वुञ्। ५० संवत्सराग्रहायणीभ्यां ठञ्। ५१ व्याहरति मृगः। ५२ तदस्य सोढम्। ५३ तत्र भवः। ५४ दिगादिभ्यो यत्। ५५ शरीरावयवाच्च। ५६ दृतिकुक्षिकराशिश्रो- वस्त्यस्त्यहेर्ढञ्। ५७ ग्रीवाभ्योऽण् च। ५८ गम्भीराञ्ञ्यः। ५९ अव्ययीभावाच्च। ६० अन्तःपूर्वपदात् ठञ्। ६१ ग्रामात्पर्य्यनुपूर्वात्। ६२ जिह्वामूलाङ्गुलेश्छः। ६३ वर्गान्ताच्च। ६४ अशब्दे यत्खावन्यतरस्याम्। ६५ कर्णललाटात्कनलङ्कारे। ६६ तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः। ६७ बह्वचोऽन्तोदात्तात् ठञ्।