भारतकोश
अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)

अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)

Ashtadhyayi Sutrapatha of Maharshi Panini

महर्षि पाणिनि द्वारा

DevanagariSanskritpublished102 पृष्ठ

पृष्ठ 4, कुल 102 में से

संदर्भ में पढ़ें
पृष्ठ 4

४ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) ४० उदात्तस्वरितपरस्य सन्नतरः। ४१ अपृक्त एकाल्प्रत्ययः। ४२ तत्पुरुषः समानाधिकरणः कर्मधारयः। ४३ प्रथमानिर्दिष्टं समास उपसर्जनम्। ४४ एकविभक्ति चापूर्वनिपाते। ४५ अर्थवदधातुरप्रत्ययः प्रातिपदिकम्। ४६ कृत्तद्धितसमासाश्च। ४७ ह्रस्वो नपुंसके प्रातिपदिकस्य। ४८ गोस्त्रियोरुपसर्जनस्य। ४९ लुक्तद्धितलुकि। ५० इद् गोण्याः। ५१ लुपि युक्तवद् व्यक्तिवचने। ५२ विशेषणानां चाजातेः। ५३ तदशिष्यं संज्ञाप्रमाणत्वात्। ५४ लुब्योगाप्रख्यानात्। ५५ योगप्रमाणे च तदभावेऽदर्शनं स्यात्। ५६ प्रधानप्रत्ययार्थवचनमर्थस्यान्य- प्रमाणत्वात्। ५७ कालोपसर्जने च तुल्यम्। ५८ जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम्। ५९ अस्मदो द्वयोश्च। ६० फल्गुनीप्रोष्ठपदानां च नक्षत्रे। ६१ छन्दसि पुनर्वस्वोरेकवचनम्। ६२ विशाखयोश्च। ६३ तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम्। ६४ सरूपाणामेकशेष एकविभक्तौ। ६५ वृद्धो यूना तल्लक्षणश्चेदेव विशेषः। ६६ स्त्री पुंवच्च। ६७ पुमान्स्त्रिया। ६८ भ्रातृपुत्रौ स्वसृदुहितृभ्याम्। ६९ नपुंसकमनपुंसकेनकवच् चास्यान्यतरस्याम्। ७० पिता मात्रा। ७१ श्वशुरः श्वश्र्वा। ७२ त्यदादीनि सर्वैर्नित्यम्। ७३ ग्राम्यपशुसङ्घेष्वतरुणेषु स्त्री। --०-- तृतीयः पादः १ भूवादयो धातवः। २ उपदेशेऽजनुनासिक इत्। ३ हलन्त्यम्। ४ न विभक्तौ तुस्माः। ५ आदिर्ञिटुडवः। ६ षः प्रत्ययस्य। ७ चुटू। ८ लशक्वतद्धिते। ९ तस्य लोपः।