अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
पृष्ठ 44, कुल 102 में से
संदर्भ में पढ़ें४४ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) [प्रथमः स्तम्भः / बायाँ स्तम्भ] ४१ तस्येश्वरः। ४२ तत्र विदित इति च। ४३ लोकसर्वलोकाट् ठञ्। ४४ तस्य वापः। ४५ पात्रात्ष्ठन्। ४६ तदस्मिन्वृद्ध्यायलाभ- शुल्कोपदा दीयते। ४७ पूरणार्धाट् ठन्। ४८ भागाद् यच्च। ४९ तद्धरति वहत्यावहति भाराद् वंशादिभ्यः। ५० वस्त्रद्रव्याभ्यां ठन्कनौ। ५१ सम्भवत्यवहरति पचति। ५२ आढकाचितपात्रात्खोऽन्य- तरस्याम्। ५३ द्विगोः ष्ठंश्च। ५४ कुलिजाल्लुक्खौ च। ५५ सोऽस्यांशवस्त्रभृतयः। ५६ तदस्य परिमाणम्। ५७ सङ्ख्यायाः सञ्ज्ञासङ्घ- सूत्राध्ययनेषु। ५८ पङ्क्तिविंशतित्रिंशच्चत्वारिंशत्- पञ्चाशत्षष्टिसप्तत्यशीति- नवतिशतम्। ५९ पञ्चद्दशतौ वर्गे वा। ६० सप्तनोऽच्छन्दसि। [द्वितीयः स्तम्भः / दायाँ स्तम्भ] ६१ त्रिंशच्चत्वारिंशतोर्ब्राह्मणे सञ्ज्ञायां डण्। ६२ तदर्हति। ६३ छेदादिभ्यो नित्यम्। ६४ शीर्षच्छेदाद् यच्च। ६५ दण्डादिभ्यो यत्। ६६ छन्दसि च। ६७ पात्राद् घंश्च। ६८ कडङ्करदक्षिणाच्च च। ६९ स्थालीबिलात्। ७० यज्ञर्त्विग्भ्यां घखञौ। ७१ पारायणतुरायणचान्द्रायणं वर्त्तयति। ७२ संशयमापन्नः। ७३ योजनं गच्छति। ७४ पथः ष्कन्। ७५ पन्थो ण नित्यम्। ७६ उत्तरपथेनाहृतं च। ७७ कालात्। ७८ तेन निर्वृत्तम्। ७९ तमधीष्टो भृतो भूतो भावी। ८० मासाद् वयसि यत्खञौ। ८१ द्विगोर्यप्। ८२ षण्मासाण्ण्यच्च। ८३ अवयसि ठंश्च। ८४ समायाः खः। ८५ द्विगोर्वा।