अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
पृष्ठ 46, कुल 102 में से
संदर्भ में पढ़ें४६ अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः ) १३३ गोत्रचरणाच्छ्लाघात्या- कारतद्वेतेषु। १३४ होत्राभ्यश्छः। १३५ ब्रह्मणस्त्वः। --०-- द्वितीयः पादः १ धान्यानां भवने क्षेत्रे खञ्। २ व्रीहिशाल्योर्ढक्। ३ यवयवकषष्टिकाद् यत्। ४ विभाषा तिलमाषोमा- भङ्गाणुभ्यः। ५ सर्वचर्मणः कृतः खखञौ। ६ यथामुखसम्मुखस्य दर्शनः खः। ७ तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति। ८ आप्रपदं प्राप्नोति। ९ अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु। १० परोवरपरम्परपुत्रपौत्रमनु- भवति। ११ अवारपारात्यन्तानुकामं गामी। १२ समांसमां विजायते। १३ अद्यश्वीनावष्टब्धे। १४ आगवीनः। १५ अनुगवलङ्गामी। १६ अध्वनो यत्खौ। १७ अभ्यमित्राच्छ च। १८ गोष्ठात्खञ्भूतपूर्वे। १९ अश्वस्यैकाहगमः। २० शालीनकौपीने अधृष्टाकार्ययोः। २१ व्रातेन जीवति। २२ साप्तपदीनं सख्यम्। २३ हैयङ्गवीनं सञ्ज्ञायाम्। २४ तस्य पाकमूले पील्वादि- कर्णादिभ्यः कुणब्जाहचौ। २५ पक्षात्तिः। २६ तेन वित्तश्चुञ्चुप्चणपौ। २७ विनञ्भ्यां नानाञौ न सह। २८ वेः शालच्छङ्कटचौ। २९ सम्प्रोदश्च कटच्। ३० अवात्कुटारच्च। ३१ नते नासिकायाः सञ्ज्ञायां टीटञ्नाटञ्भ्रटचः। ३२ नेर्बिडञ्बीरीसचौ। ३३ इनचिटच्चिकचि च। ३४ उपाधिभ्यां त्यकन्नासन्ना- रूढयोः। ३५ कर्मणि घटोऽठच्। ३६ तदस्य सञ्जातं तारकादिभ्य इतच्। ३७ प्रमाणे द्वयसज्दघ्नञ्मात्रचः। ३८ पुरुषहस्तिभ्यामण्च। ३९ यत्तदेतेभ्यः परिमाणे वतुप्।