भारतकोश
अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)

अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)

Ashtadhyayi Sutrapatha of Maharshi Panini

महर्षि पाणिनि द्वारा

DevanagariSanskritpublished102 पृष्ठ

पृष्ठ 49, कुल 102 में से

संदर्भ में पढ़ें
पृष्ठ 49

पञ्चमाध्याये तृतीयः पादः ४९ १३५ पुष्करादिभ्यो देशे। १३६ बलादिभ्यो मतुबन्यतरस्याम्। १३७ सञ्ज्ञायां मन्माभ्याम्। १३८ कंशम्भ्यां बभयुस्तितुतयः। १३९ तुन्दिबलिवटेर्भः। १४० अहंशुभमोर्युस्। --०-- तृतीयः पादः १ प्राग्दिशो विभक्तिः। २ किंसर्वनामबहुभ्योऽद्व्यादिभ्यः। ३ इदम इश्। ४ एतेतौ रथोः। ५ एतदोऽन्। ६ सर्वस्य सोऽन्यतरस्यां दि। ७ पञ्चम्यास्तसिल्। ८ तसेश्च। ९ पर्यभिभ्यां च। १० सप्तम्यास्त्रल्। ११ इदमो हः। १२ किमोऽत्। १३ वा ह चच्छन्दसि। १४ इतराभ्योऽपि दृश्यन्ते। १५ सर्वैकान्यकिंयत्तदः काले दा। १६ इदमो र्हिल्। १७ अधुना। १८ दानीं च। १९ तदो दा च। २० तयोर्दाहिलौ चच्छन्दसि। २१ अनद्यतने र्हिलन्यतरस्याम्। २२ सद्यःपरुत्परार्यैषमःपरेद्य्वद्य- पूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युर- परेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः। २३ प्रकारवचने थाल्। २४ इदमस्थमुः। २५ किमश्च। २६ था हेतौ चच्छन्दसि। २७ दिक्शब्देभ्यः सप्तमीपञ्चमी- प्रथमाभ्यो दिग्देश- कालेष्वस्तातिः। २८ दक्षिणोत्तराभ्यामतसुच्। २९ विभाषा परावराभ्याम्। ३० अञ्चेलुक्। ३१ उपर्युपरिष्टात्। ३२ पश्चात्। ३३ पश्च पश्चा चच्छन्दसि। ३४ उत्तराधरदक्षिणादातिः। ३५ एनबन्यतरस्यामदूरेऽपञ्चम्याः। ३६ दक्षिणादाच्। ३७ आहि च दूरे। ३८ उत्तराच्च। ३९ पूर्वाधरावराणामसि पुरधवश्चैषाम्।