अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
पृष्ठ 51, कुल 102 में से
संदर्भ में पढ़ेंपञ्चमाध्याये चतुर्थः पादः ५१ ९१ वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे। ९२ किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच्। ९३ वा बहूनां जातिपरिप्रश्ने डतमच्। ९४ एकाच्च प्राचाम्। ९५ अवक्षेपणे कन्। ९६ इवे प्रतिकृतौ। ९७ सञ्ज्ञायां च। ९८ लुम्मनुष्ये। ९९ जीविकार्थे चापण्ये। १०० देवपथादिभ्यश्च। १०१ वस्तेर्ढञ्। १०२ शिलाया ढः। १०३ शाखादिभ्यो यत्। १०४ द्रव्यं च भव्ये। १०५ कुशाग्राच्छः। १०६ समासाच्च तद्विषयात्। १०७ शर्करादिभ्योऽण्। १०८ अङ्गुल्यादिभ्यष्ठक्। १०९ एकशालायाष्ठञन्यतरस्याम्। ११० कर्कलोहितादीकक्। १११ प्रत्नपूर्वविश्वेमात्थाल्छन्दसि। ११२ पूगाञ्ञ्योऽग्रामणीपूर्वात्। ११३ व्रातच्छञोरस्त्रियाम्। ११४ आयुधजीविसङ्घाञ्ञ्यङ् वाहीकेष्वब्राह्मणराजन्यात्। ११५ वृकाट् टेण्यण्। ११६ दामन्यादित्रिगर्तषष्ठाच्छः। ११७ पर्श्वादि- यौधेयादिभ्यामणञौ। ११८ अभिजिद्विद्भृच्छालावच्- छिखावच्छमीवदूर्णावच्- छूरूमदणो यञ्। ११९ ज्यादयस्तद्राजाः। --०-- चतुर्थः पादः १ पादशतस्य सङ्ख्यादेर्वीप्सायां वुन्लोपश्च। २ दण्डव्यवसर्गयोश्च। ३ स्थूलादिभ्यः प्रकारवचने कन्। ४ अनत्यन्तगतौ क्तात्। ५ न सामिवचने। ६ बृहत्या आच्छादने। ७ अषडक्षाशितङ्ग्वलङ्- कर्मालम्पुरुषाध्युत्तरपदात्खः। ८ विभाषाञ्चेरदिक्स्त्रियाम्। ९ जात्यन्ताच्छ बन्धुनि। १० स्थानान्ताद् विभाषा सस्थानेनेति चेत्। ११ किमेत्तिङ्व्ययघादाम्बद्रव्य- प्रकर्षे। १२ अमु चच्छन्दसि। १३ अनुगादिनष्ठक्।