अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
पृष्ठ 53, कुल 102 में से
संदर्भ में पढ़ेंपञ्चमाध्याये चतुर्थः पादः ५३ ५९ सङ्ख्यायाश्च गुणान्तायाः। ६० समयाच्च यापनायाम्। ६१ सपत्रनिष्पत्रादतिव्यथने। ६२ निष्कुलानिष्कोषणे। ६३ सुखप्रियादानुलोम्ये। ६४ दुःखात्प्रातिलोम्ये। ६५ शूलात्पाके। ६६ सत्यादशपथे। ६७ मद्रात्परिवापणे। ६८ समासान्ताः। ६९ न पूजनात्। ७० किमः क्षेपे। ७१ नजस्तत्पुरुषात्। ७२ पथो विभाषा। ७३ बहुव्रीहौ सङ्ख्येये डजबहुगणात्। ७४ ऋक्पूरब्धूःपथामानक्षे। ७५ अचप्रत्यन्ववपूर्वात्साम- लोम्नः। ७६ अक्ष्णोऽदर्शनात्। ७७ अचतुरविचतुरसुचतुरस्त्री- पुंसधेन्वनडुहर्कसामवाङ्- मनसाक्षिभ्रुवदारगवोर्वष्ठीव- पदष्ठीवनक्तन्दिवरात्रिन्- दिवाहर्दिवसरजसनिश्श्रेयस- पुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुष- जातोक्षमहोक्षवृद्धोक्षोपशुन- गोष्ठश्वाः। ७८ ब्रह्महस्तिभ्यां वर्चसः। ७९ अवसमन्धेभ्यस्तमसः। ८० श्वसो वसीयः श्रेयसः। ८१ अन्ववतप्ताद् रहसः। ८२ प्रतेरुरसः सप्तमीस्थात्। ८३ अनुगवमायामे। ८४ द्विस्तावा त्रिस्तावा वेदिः। ८५ उपसर्गादध्वनः। ८६ तत्पुरुषस्याङ्गुलेः सङ्ख्याव्ययादेः। ८७ अहःसर्वैकदेशसङ्ख्यात- पुण्याच्च रात्रेः। ८८ अह्रोऽह्न एतेभ्यः। ८९ न सङ्ख्यादेः समाहारे। ९० उत्तमैकाभ्यां च। ९१ राजाहःसखिभ्यष्टच्। ९२ गोरतद्धितलुकि। ९३ अग्राख्यायामुरसः। ९४ अनोश्मायःसरसां जातिसञ्ज्ञयोः। ९५ ग्रामकौटाभ्यां च तक्षणः। ९६ अतेः शुनः। ९७ उपमानादप्राणिषु। ९८ उत्तरमृगपूर्वाच्च सक्थ्नः। ९९ नावो द्विगोः। १०० अर्धाच्च। १०१ खार्याः प्राचाम्।