अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
पृष्ठ 67, कुल 102 में से
संदर्भ में पढ़ेंषष्ठाध्याये चतुर्थः पादः ६७ [वाम स्तम्भः] ११८ मतौ बह्वचोऽनजिरादीनाम्। ११९ शरादीनां च। १२० इको वहेऽपीलोः। १२१ उपसर्गस्य घञ्यमनुष्ये बहुलम्। १२२ इकः काशे। १२३ दस्ति। १२४ अष्टनः सञ्ज्ञायाम्। १२५ छन्दसि च। १२६ चितेः कपि। १२७ विश्वस्य वसुराटोः। १२८ नरे सञ्ज्ञायाम्। १२९ मित्रे चर्षौ। १३० मन्त्रे सोमाश्वेन्द्रियविश्व- देव्यस्य मतौ। १३१ ओषधेश्च विभक्ताव- प्रथमायाम्। १३२ ऋचि तुनुघमक्षुतङ्कु- त्रोरुष्याणाम्। १३३ इकः सुञि। १३४ द्व्यचोऽतस्तिङः। १३५ निपातस्य च। १३६ अन्येषामपि दृश्यते। १३७ चौ। १३८ सम्प्रसारणस्य। --०-- [दक्षिण स्तम्भः] चतुर्थः पादः १ अङ्गस्य। २ हलः। ३ नामि। ४ न तिसृचतसृ। ५ छन्दस्युभयथा। ६ नृ च। ७ नोपधायाः। ८ सर्वनामस्थाने चासम्बुद्धौ। ९ वा षपूर्वस्य निगमे। १० सान्तमहतः संयोगस्य। ११ अप्प्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृ- क्षत्तृहोतृपोतृप्रशास्तॄणाम्। १२ इन्हन्पूषार्यम्णां शौ। १३ सौ च। १४ अत्वसन्तस्य चाधातोः। १५ अनुनासिकस्य क्विझलोः क्ङिति। १६ अज्झनगमां सनि। १७ तनोतेर्विभाषा। १८ क्रमश्च क्त्वि। १९ च्छ्वोः शूडनुनासिके च। २० ज्वरत्वरस्त्रिव्यविमवामुप- धायाश्च। २१ राल्लोपः। २२ असिद्धवदत्राभात्। २३ श्नान्नलोपः।