अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
पृष्ठ 71, कुल 102 में से
संदर्भ में पढ़ेंसप्तमाध्याये प्रथमः पादः ७१ १७० न मपूर्वोऽपत्येऽवर्मणः। १७१ ब्राह्मोऽजातौ। १७२ कार्मस्ताच्छील्ये। १७३ औक्षमपत्ये। १७४ दाण्डिनायनहास्तिनायनाथर्वणिक- जैह्माशिनेयवाशिनायनि- भ्रौणहत्यधैवत्यसारवैश्कवाक- मैत्रेयहिरण्मयानि। १७५ ऋत्य्वास्त्व्यवास्त्वमाध्वी- हिरण्ययानिच्छन्दसि। सप्तमोऽध्यायः प्रथमः पादः १ युवोरनाकौ। २ आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्। ३ झोऽन्तः। ४ अदभ्यस्तात्। ५ आत्मनेपदेष्वनतः। ६ शीङो रुट्। ७ वेत्तेर्विभाषा। ८ बहुलं छन्दसि। ९ अतो भिस ऐस्। १० बहुलं छन्दसि। ११ नेदमदसोर्कोः। १२ टाङ्सिङसामिनात्स्याः। १३ ङेर्यः। १४ सर्वनाम्नः स्मै। १५ ङसिङ्योः स्मात्स्मिनौ। १६ पूर्वादिभ्यो नवभ्यो वा। १७ जसः शी। १८ औङ आपः। १९ नपुंसकाच्च। २० जश्शसोः शिः। २१ अष्टाभ्य औश्। २२ षड्भ्यो लुक्। २३ स्वमोर्नपुंसकात्। २४ अतोऽम्। २५ अद्ड् डतरादिभ्यः पञ्चभ्यः। २६ नेतराच्छन्दसि। २७ युष्मदस्मद्भ्यां ङसोऽश्। २८ ङे·प्रथमयोरम्। २९ शसो न। ३० भ्यसो भ्यम्। ३१ पञ्चम्या अत्। ३२ एकवचनस्य च। ३३ साम आकम्। ३४ आत औ णलः। ३५ तुह्योस्तातङाशिष्यन्य- तरस्याम्।