अष्टाध्यायी सूत्रपाठ (महर्षि पाणिनि - पदच्छेद एवं यतिबोध सहित सम्पूर्ण ८ अध्याय)
Ashtadhyayi Sutrapatha of Maharshi Panini
महर्षि पाणिनि द्वारा
पृष्ठ 80, कुल 102 में से
संदर्भ में पढ़ें८० अष्टाध्यायीसूत्रपाठः ( यतिबोधसहितः )
७२ अश्नोतेश्च। ७३ भवतेरः। ७४ ससूवेति निगमे। ७५ निजां त्रयाणां गुणः श्लौ। ७६ भृञामित्। ७७ अर्तिपिपर्त्योश्च। ७८ बहुलं छन्दसि। ७९ सन्यतः। ८० ओः पुयण्ज्यपरे। ८१ स्रवतिशृणोतिद्रवतिप्रवति- प्लवतिच्यवतीनां वा। ८२ गुणो यङ्लुकोः। ८३ दीर्घोऽकितः। ८४ नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकस- पतपदस्कन्दाम्। ८५ नुगतोऽनुनासिकान्तस्य। ८६ जपजभदहदशभञ्जपशां च। ८७ चरफलोश्च। ८८ उत्परस्यातः। ८९ ति च। ९० रीगृदुपधस्य च। ९१ रुग्रिकौ च लुकि। ९२ ऋतश्च। ९३ सन्वल्लघुनि चङ्परेऽनग्लोपे। ९४ दीर्घो लघोः। ९५ अत्स्मृहृत्वरप्रथप्रदस्तु- स्पशाम्। ९६ विभाषा वेष्टिक्षेप्योः। ९७ ई च गणः।
अष्टमोऽध्यायः
प्रथमः पादः
१ सर्वस्य द्वे। २ तस्य परमाम्रेडितम्। ३ अनुदात्तं च। ४ नित्यवीप्सयोः। ५ परेर्वर्जने। ६ प्रसमुपोदः पादपूरणे। ७ उपर्यध्यधसः सामीप्ये। ८ वाक्यादेरामन्त्रितस्यासूया- सम्मतिकोपकुत्सनभर्त्सनेषु। ९ एकं बहुव्रीहिवत्। १० आबाधे च। ११ कर्मधारयवदुत्तरेषु। १२ प्रकारे गुणवचनस्य। १३ अकृच्छ्रे प्रियसुखयोरन्य- तरस्याम्।