आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 107, कुल 292 में से
संदर्भ में पढ़ेंद्वादशः खण्डः] अनाविलोपेताम् । ५७
प्राजापत्यस्य स्थालीपाकस्य हुत्वा हृदयदेशमस्या आलभेत। यत्ते सुसीमे हृदये हितमन्तः प्रजापतौ मन्येऽहं मां तद्विद्वांसं माहं पौत्रमघं नियामिति ॥ ७ ॥
पुंसवनानवलोभनयोरपि स्थालीपाकः । तेनादावेव तं श्रपयित्वाज्यभागान्ते नस्तःकरणान्तं प्रजापतये स्वाहेति हुत्वा हृदयदेशमस्या आलभेत स्पृशेद् यत्त इति मन्त्रेण ॥७॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ प्रथमाध्याये एकादशः खण्डः ।
अथ द्वादशः खण्डः ।
चतुर्थे गर्भमासे सीमन्तोन्नयनम् ॥ १ ॥
सीमन्त उन्नीयते यस्मिन् कर्मणि तत् सीमन्तोन्नयनम् । तच्च चतुर्थे गर्भमासे कर्तव्यम् । अस्मादेव समाख्यानादिदमत्र प्रधानकर्म न गर्भसंस्कारः। तस्माद् “एवं त्वं गर्भमाधेही”ति गर्भलिङ्गे सत्यपि तस्याप्रधानत्वान्न प्रतिगर्भमस्यावृत्तिः । न च द्वितीयादिषु गर्भेषु चत्वारिंशत्संस्काराणामूनता, आधारसंस्कारद्वारेण तेषामप्ययं संस्कार इति कृत्वा । तस्मात् प्रथम एव गर्भे एतत् कर्म भवति । तथाचापस्तम्बः— “सीमन्तोन्नयनं प्रथमे गर्भे चतुर्थे मासी”ति । पूर्वयोस्तु कर्मणोः गर्भसंस्कारत्वात् प्रतिगर्भमावृत्तिः ॥१॥
१. 'ति ह्', २. 'स्य' ग. पाठः.