आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 109, कुल 292 में से
संदर्भ में पढ़ेंद्वादशः खण्डः] अनाविलोपेताम् । ५९
यितुं शक्येन । अपक्वानि फलानि शलाटूनि तेषां ग्लप्सेन स्तबकेन, यत्र स्तबके फलानि युग्मानि तेन । त्रिरावृत्तोऽन्यो वर्णो यस्याः तया त्रिरन्यया शलल्या आरण्यस्य वराहविशेषस्य, यस्ये सूच्याकाराणि रोमाणि, तस्य सूची शलली, सा कृष्णा भवति । तत्र कस्याश्चित् त्रिषु स्थानेषु श्वेतो वर्णः अन्यस्या अन्यथा ततो विशेष्यते त्रिरन्ययेति । कुशपिञ्जूलैः कुशस्तम्बैः तरुणकैरतैर्द्रव्यैर्युगपद्गृहीतैरूर्ध्वं सीमन्तं व्यूहति । यथा सीमन्तो भवति तथा केशान् पृथक्करोति भूर्भुवःस्वरोमिति मन्त्रेण त्रिश्चतुर्वा । सर्वत्र मन्त्रावृत्तिः ॥ ४ ॥
वीणागाथिनौ संशास्ति ॥ ५ ॥
वीणा च गाथा च ययोस्तौ वीणागाथिनौ । संशास्ति प्रेष्यति ॥ ५ ॥
कथं — सोमं राजानं संगायतमिति ॥ ६ ॥
अनेन प्रैषेण ॥ ६ ॥
गाथामाह — सोमो नो राजावतु मानुषीः प्रजा निविष्टचक्रासाविति ॥ ७ ॥
असावित्यत्र सम्बुद्ध्या नद्या नामनिर्देशः ॥ ७ ॥
कस्या नद्याः — यां नदीमुपावसिता भवन्ति ॥ ८ ॥
१. 'या च श' क. ग. पाठः.
२. 'स्य चकारेण रोम्णा श' क, 'स्याश्चर्यकराणि लोमानि तस्य सूची श' ग. पाठः.
३. 'रेण लोम्ना श' ख. पाठः.