आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 119, कुल 292 में से
संदर्भ में पढ़ेंपञ्चदशः खण्डः] अनाविलोपेनम् । १९
द्वितीयम् । येन भूयश्चरात्ययं ज्योक् च पश्याति सूर्यम् । तेन ते आयुषे वपामि सुश्लोक्याय स्वस्तय इति तृ- तीयम् ॥ १४ ॥
प्रच्छिनत्तीत्येव ॥ १४ ॥
सर्वैर्मन्त्रैश्चतुर्थम् ॥ १५ ॥
येनावपत्, येन धाता, येन भूयश्चेत्येतैः । अन्यत् पूर्वसमानम् ॥ १५ ॥
एवमुत्तरतस्त्रिः ॥ १६ ॥
यथा दक्षिणे केशपक्षे प्रच्छेदनानि कृतानि, एवं तै- रेव मन्त्रैरुत्तरे केशपक्षे कर्तव्यानि । किं सर्वाणि, नेत्याह — त्रिः आदितस्त्रीणि प्रच्छेदनानि भवन्ति । सर्वैर्मन्त्रैश्चतुर्थ- मित्येतन्न स्यादित्यर्थः । तदेवं दक्षिणेपु चतुर्षु प्रच्छेदनेषु त्रीणि त्रीणि द्वादश उत्तरेषु त्रीणि त्रीणि नव इत्येकविंशतेः पिञ्जूलानां विनियोगः ॥ १६ ॥
क्षुरतेजो निमृजेद् यत् क्षुरेण मर्चयता सुपे- शसा वप्ता वपसि केशान् । शुन्धि शिरो मास्यायुः प्रमोषीरिति ॥ १७ ॥
तेजो धारा तां निमृजेत् निमृज्यात् निशब्दोपादा- नान्नीचीनं मार्जनं यत् क्षुरेणेति मन्त्रेण ॥ १७ ॥
नापितं शिष्याच्छीतोष्णाभिरद्भिरवर्थं कुर्वाणो- ऽक्ष्णवन् कुशली केशान् कुर्विति ॥ १८ ॥