भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 128, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 128

७८ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

सविता ते हस्तमग्रभीदित्यनेन मन्त्रेण द्वितीयं ग्रह- णं कुर्यात् । एतेनोत्तरं व्याख्यातम् ॥ १६ ॥

आदित्यमीक्षयेद् देव सवितरेष ते ब्रह्मचारी तं गोपाय स मामृतेत्याचार्यः ॥ १७ ॥

अथ कुमारमीक्षयेदाचार्यो देव सवितरिति मन्त्रं ब्रू- यात् । आचार्यग्रहणमनर्थकं यथा पूर्वेषु कर्मस्वाचार्यः कर्ता एवमत्रापि भविष्यति । तत् क्रियते मन्त्रोऽप्याचार्यस्य कथं स्यादिति । इदमपि पूर्ववदेव सिद्धम् । एवं तर्ह्येतद् ज्ञाप- यत्याचार्यः अन्यत्रैवंविधे विषये ईक्षितुरेव मन्त्र इति । यथा ‘मुक्तवन्तमपामञ्जलिपूर्णमादित्यमुपस्थापयेत् त्वं व्रतानां व्र- तपतिरसी’ति ॥ १७ ॥

कस्य ब्रह्मचार्यसि प्राणस्य ब्रह्मचार्यसि कस्त्वा कमुपनयते काय त्वा परिददामीति ॥ १८ ॥

परिदद्यादिति शेषः, मन्त्रलिङ्गात् । वक्ष्यति च ‘एतेन वापनादि परिदानान्तं व्रतादेशनं व्याख्यातमिति ‘परिदानं कालश्चे’ति च ॥ १८ ॥

युवा सुवासाः परिवीत आगादित्यर्धर्चेनैनं प्रद- क्षिणमावर्तयेत् ॥ १९ ॥

प्रकृतेऽपि कुमारे पुनरेनामिति वचनादावर्तयितुर्मन्त्रः, नावर्त्यमानस्य ॥ १९ ॥

तस्याध्यंसौ पाणी कृत्वा हृदयदेशमालभेतोत्त- रेण ॥ २० ॥


१. 'रमादित्यमी' घ. पाठः.