आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 145, कुल 292 में से
संदर्भ में पढ़ेंएकविंशः खण्डः] अनाविलोपेतम् । ९५
एतेनाग्ने ब्रह्मणा वावृधस्वेति दक्षिणाग्नावाज्या- हुतिं हुत्वा यथार्थं प्रव्रजेत् ॥ २३ ॥
य आर्त्विज्यं करोति तस्य तत्समाप्ताविदं नैमित्ति- कमुच्यते । एतेनाग्ने इत्यृचा दक्षिणाग्नावाज्यहुतिं जुहुयात् ततो यथार्थं प्रव्रजेत् । देशान्तरगमनमांसाशनादिकमस्य न प्रतिषिध्यते । पूर्वं तु प्रतिषिध्यत इति ॥ २३ ॥
एवमनाहिताग्निर्गृह्य इमामग्ने शरणिं मीमृषो न इत्येतयर्चा ॥ २४ ॥
हुत्वा यथार्थं प्रव्रजेदिति वर्तते । अनाहिताग्नेरार्त्वि- ज्यं कृतवत ऋगग्निश्च भिद्यते । अन्यत् समानम् । पाद- ग्रहणादेव सिद्धे ऋचेति वचनं विस्पष्टार्थम् । ऋत्विग्भ्यो म- धुपर्को देय इति वक्ष्यते । तत्र के त ऋत्विज इत्यपेक्षामपने- तुमिहर्त्विग्वरणमाम्नातम् ॥ २४ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ प्रथमाध्याये विंशः खण्डः ।
अथैकविंशः खण्डः ।
ऋत्विजो वृत्वा मधुपर्कमाहरेत् ॥ १ ॥
दद्यात् । वृत्वेति वचनाद् वरणानन्तरमेव ऋत्विजां मधुपर्कः, न प्रत्यहम् ॥ १ ॥
स्नातकायोपस्थिताय ॥ २ ॥
स्नातकः कृतसमावर्तनः । तस्मै उपस्थिताय गुरु- कुलादागताय मधुपर्कमाहरेत् । तत्र मनुः—