भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 147, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 147

एकविंशः खण्डः] अनाविलोपेताम् । ९७

मध्ये एकैकं द्रव्यं मधुपर्क्याय त्रिस्रिनिवेदयन्ते । के, दातारः तत्परिचारका वा । तेषां च निवेदनं तत्रावसरे क्रमेण । एतेषामिति वचनमेवंजातीयानां गन्धादीनां मा भूदिति ॥ ६ ।

एवं दातुः कर्तव्यमुक्तम्, मधुपर्क्यस्य कर्तव्यमाह —

अहं वर्ष्म सजातानां विद्युतामिव सूर्यः। इदं तंमाधितिष्ठामि यो मा कश्चाभिदासतीत्युदगग्रे विष्टर उपविशेत् ॥ ७ ॥

विष्टरो विष्टरो विष्टर इति त्रिरुक्त्वा उदगग्रं विष्टरं निदधाति दाता । स च दर्भमयं कूर्चम् । तस्मिन्नुपविशेत् प्रतिग्रहीता अहं वर्ष्मेति मन्त्रेण ॥ ७ ॥

आक्रम्य वा पादौ प्रक्षालापयीत ॥ ८ ॥

अथवा नोपविशेत्, पादाभ्यां विष्टरमाक्रम्य पाद्योः प्रक्षालनं कारयेत् । प्रक्षालापयीतेति रूपसिद्धिश्चिन्त्या ॥ ८ ॥

दक्षिणमग्रे ब्राह्मणाय प्रयच्छेत् ॥ ९ ॥

यदा ब्राह्मणः प्रक्षालयिता तदा तस्मै दक्षिणं पादं पूर्वं प्रयच्छेत्, ततः सव्यम् ॥ ९ ॥

सव्यं शूद्राय ॥ १० ॥

पूर्वोक्तविपरीतम् । क्षत्रियवैश्ययोर्यथारुचि ॥ १० ॥

प्रक्षालितपादोऽर्घ्यमञ्जलिना प्रतिगृह्णात्याचमनीयेनाचामत्यमृतोपस्तरणमसीति ॥ ११ ॥

उपदेशक्रमादेव सिद्धे प्रक्षालितपादग्रहणमानन्तर्यार्थम् । तेन गन्धमाल्यादीनामर्हणाद्रव्याणां पश्चात् प्रवृत्तिः ।


१. 'ते', २. 'त्व' क. ख. ङ. पाठः. ३. 'नान्वाचा' क. पाठः.

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित) · पृष्ठ 147, कुल 292 में से · BharatKosha