आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 150, कुल 292 में से
संदर्भ में पढ़ें९८ | आश्वलायनगृह्यसूत्रम् | [प्रथमोऽध्यायः
अर्घ्यमञ्जलिना प्रतिगृह्य एतावानर्घ्योपयोगः । केचित् मुखप्रक्षालनमिच्छन्ति । अथशब्दाद् गन्धादीनामुत्कर्षः । आचमनीयैनाचामति आचमनयिमुदकं सकृत् पिबति अमृतोपस्तरणमसीति मन्त्रेण । तत्रान्यच्छौचार्थं विधिवदाचमनं प्रवर्तते । नेत्यन्ये, यथा भोजनोपक्रमे न भवति एवमन्यत्रापीति । ज्ञापकं चात्र वक्ष्यामः ॥ ११ ॥
मधुपर्कमाह्रियमाणमीक्षते मित्रस्य त्वा चक्षुषा प्रतीक्ष इति ॥ १२ ॥
मधुपर्कमाहरति दाता । तमाह्रियमाणमीक्षते प्रतिग्रहीता मित्रस्य त्वेत्यनेन ॥ १२ ॥
देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रतिगृह्णामीति तमञ्जलिना प्रतिगृह्य मधु वाता ऋतायत इति तृचेनावेक्ष्यानामिकया चाङ्गुष्ठेन च त्रिः प्रदक्षिणमालोड्य वसवस्त्वा गायत्रेण छन्दसा भक्षयन्विति पुरस्तान्निमार्ष्टि ॥ १३ ॥
तं मधुपर्कमञ्जलिना प्रतिगृह्णाति देवस्य त्वेति मन्त्रेण । ततो मधु वाता इति तृचेनावेक्षते । ततोऽनामिकया उपकनिष्ठिकयाङ्गुल्याङ्गुष्ठेन च त्रिः प्रदक्षिणमालोडयति । आलोड्य वसवस्त्वेति मन्त्रेण पुरस्तान्निमार्ष्टि लेपमपनयति ॥ १३ ॥
रुद्रास्त्वा त्रैष्टुभेन छन्दसा भक्षयन्त्विति दक्षिणतः आदित्यास्त्वा जागतेन छन्दसा भक्षयन्विति
१. 'ति मन्त्रेण ॥' ख. ग. घ. पाठः.