भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 157, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 157

अनाविलोपेताम् । १०५

प्रदक्षिणं परीत्य पश्चाद् बलेरुपविश्य सर्पोऽसि सर्पतां सर्पाणामधिपतिरस्यन्नेन मनुष्यांस्त्रायसेऽपूपेन सर्पान् यज्ञेन देवांस्त्वयि मा सन्तं त्वयि सन्तः सर्पा मा हिंसिषुः ॥ १० ॥

अथ तं बलिं प्रदक्षिणं परीत्य पश्चादस्योपविश्य जपतीत्यध्याहार्यम्। बलिग्रहणेऽक्रियमाणे पश्चाच्छब्दः कालवाची शङ्क्येत। तथा सति पूर्वाहुतिरवस्थितस्य प्राप्नोति। बलिग्रहणाद् दिग्वाची भवति ॥ १० ॥

ध्रुवान्ते परिददामीति ॥ ११ ॥

परिददातीत्यध्याहार्यम्। साकाङ्क्षत्वान्मन्त्रलिङ्गाच्च। ध्रुवान्ते परिददामीत्येवं परिददाति कस्मै ध्रुवाय सम्बोध्यमानाय। ध्रुवो नाम सर्पाणामधिपतिः। हे ध्रुव! अन्ते अस्य कर्मणोऽन्ते परिददामीति मन्त्रार्थः। ध्रुवान् निश्चलान् ते तुभ्यं परिददामीत्यन्ये ॥ ११ ॥

एवं सामान्योक्तस्य परिदानस्य विभज्य वचनं —

ध्रुवामुं ते ध्रुवासुं ते इत्यमात्याननुपूर्वं ध्रुव मां ते परिददामीत्यात्मानमन्ततः ॥ १२ ॥

अमुमित्यस्य स्थाने अमात्यानां नामनिर्देशो द्वितियया ध्रुव! रुद्रं ते ध्रुव! विष्णुं त इति। एवममात्याननुपूर्वं ज्येष्ठक्रमेण परिददाति। अन्ततस्तु ध्रुव! मां ते परिददामीत्यात्मानं परिददाति। अमुमित्यस्य स्थाने मामिति नतु नामनिर्देशः। तत्रार्थात् स्वयंकर्तृकमेतत् कर्म। अन्यकर्तृकत्वेऽप्याधिकारिण एवान्ततः परिदानम् ॥ १२ ॥