आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 178, कुल 292 में से
संदर्भ में पढ़ें| १३६ | आश्वलायनगृह्यसूत्रम् | [द्वितीयोऽध्यायः |
|---|
संसदमुपयायात् ॥ ११ ॥
संसदिति व्यवहारस्थानमुच्यते । ताम् उपयायाद्यदि व्यवहारार्थी स्यात् । वक्ष्यमाणविवक्षया प्राप्तानुवादोऽयम् ॥
अस्माकमुत्तमं कृधीत्यादित्यमीक्षमाणो जपित्वावरोहेत् ॥ १२ ॥
संसदं प्रपद्येतेत्यर्थः । अवपूर्वो रुहिरस्मिन्नर्थेऽन्यत्रापि दृष्टः । तद् यथा — "सदासुगः पितुर्मा यदस्तु पन्था इति पन्थानमवरोहे"ति ॥ १२ ॥
ऋषभं मा समानानामित्यभिक्रामन् ॥ १३ ॥
यदा प्रत्यर्थिनमभिक्रामति, तदा ऋषभं मेति जपेत् जपित्वेति प्रकृतत्वात् ॥ १३ ॥
वयमद्येन्द्रस्य प्रेष्ठा इत्यस्तं यात्यादित्ये^२ ॥ १४ ॥
आदित्ये अस्तं याति सति गच्छति सति वयमद्येन्द्रस्येत्येतामृचं जपेत् ॥ १४ ॥
तद्बो दिवो दुहितरो विभातीरिति व्युष्टायाम् ॥ १५ ॥
व्युष्टायां रात्रौ उषाकाले तद्बो दिव इति जपेत् । आ व्यवहारसमाप्तेरेते जपाः प्रत्यहं भवन्ति ॥ १५ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ द्वितीयाध्याये षष्ठः खण्डः ।
अथ सप्तमः खण्डः ।
अथातो वास्तुपरीक्षा ॥ १ ॥
अथशब्दोऽधिकारार्थः । अतःशब्दो हेत्वर्थः । यस्मात्
१. 'त् एतल्लभ्यते ॥' घ पाठः.
२. 'त्ये ॥ ञ' ख. ग. पाठः.