आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 184, कुल 292 में से
संदर्भ में पढ़ें| १३२ | आश्वलायनगृह्यसूत्रम् | [द्वितीयोऽध्यायः |
|---|
प्रतिप्रदक्षिणं सूक्तस्यावृत्तिः । प्रोक्षणं तु प्रत्यृचं प्रत्यर्धर्चं प्रतिपादं वा ॥ १३ ॥
अविच्छिन्नया चोदकधारयापो हि ष्ठा मयोभुव इति तृचेन ॥ १४ ॥
त्रिः प्रदक्षिणं परिव्रजन् प्रोक्षतीत्येव ॥ १४ ॥
वंशान्तरेषु शरणानि कारयेत् ॥ १५ ॥
एकस्मिन् वंशप्रदेशे यथा शरणानि शयनस्थानानि भवन्ति तथा कारयेत् । एकस्मिन् शयने वंशप्रभेदो न कर्तव्यः ॥ १५ ॥
कर्तेष्ववकाः शीफालमित्यवधापयेत् ॥ १६ ॥
कर्तेष्वित्यनुवादात् स्थूणाकर्ताः खानयितव्या इति गम्यते । 'प्रदक्षिणं स्थूणाकर्तान् खानयित्वे'त्यापस्तम्बः । तेषु । जले प्लवमाना मूलवन्तः पिण्डीभूता अभूमिस्पर्शिनः शैवालविशेषा अवकाः । शीफालं शैवलम् । तदुभयं निधापयेत् ॥ १६ ॥
तयोः प्रशंसा—
न हास्य दाहुकं भवतीति विज्ञायते ॥ १७ ॥
अस्यैवं कुर्वतो गृहं न दाहुकं भवति । कर्मण्युक्प्रत्ययः । कदाचिदपि दह्यमानं न भवतीति विज्ञायते । अग्न्यादिकं वा दाहुकं न भवतीति ॥ १७ ॥
१. 'खात घ. पाठः.