आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 187, कुल 292 में से
संदर्भ में पढ़ेंदशमः खण्डः] अनाविलोपेताम् । १३५
ब्राह्मणान् भोजयित्वा शिवं वास्तु शिवं वास्त्विति वा- चयीत ॥ ७ ॥
स्थालीपाकधर्मत्वादेव श्रपणे सिद्धे श्रपयित्वेति वचनं नियमार्थं स्थालीपाकस्यास्यैव प्रथमं श्रपणं यथा स्याद् भोज- नार्थं मा भूदिति । तैर्भुक्तवद्भिरेव वाचनम् ॥ ७ ॥
इति हरदत्ताचार्यमिश्रविरचितायामाश्वलायनगृह्यवृत्तौ द्वितीयाध्याये नवमः खण्डः ।
अथ दशमः खण्डः ।
उक्तं गृहप्रपदनम् ॥ १ ॥
यदनन्तरोक्तं मणिकप्रतिष्ठापनादि तद् गृहप्रपदनं स्वगृहप्रवेशः । पूर्वं कृतसंस्कारमपि गृहं क्रयादिप्राप्तं प्रविश- ताप्येतत् कर्तव्यमित्युक्तं भवति ॥ १ ॥
बीजवतो गृहान् प्रपद्येत ॥ २ ॥
पूर्वं व्रीह्यादिबीजानि स्थापयित्वा पश्चाद् गृहान् प्रप- द्येत ॥ २ ॥
क्षेत्रं प्रकर्षयेदुत्तरैः प्रोष्ठपदैः फल्गुनीभी रोहिण्या वा ॥
सर्वत्र ‘नक्षत्रे च लुपि’त्यधिकरणे तृतीया । एषु नक्ष- त्रेषु क्षेत्रस्य कर्षणं कारयेत् ॥ ३ ॥
तत्र प्रकारः —
क्षेत्रस्यानुवातं क्षेत्रस्य पतिना वयमिति प्रत्यृचं जुहुयाज्जपेद् वा ॥ ४ ॥
क्षेत्रस्यानुवातं यस्यां दिशि होमे कृते क्षेत्रं धूमो