भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 208, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 208

१५६ आश्वलायनगृह्यसूत्रम् [तृतीयोऽध्याय

सीत वाग्यतः सायं यावान् सन्ध्याकालः तावन्तमासीत । उत्तरापरमन्वष्टमदेशमभिमुखः प्रतीच्यां दिशि य उत्तरो भागः तस्याष्टधा विभक्तस्य योऽष्टमो देशः उत्तरत आरभ्य तमनु । तं प्रति कियन्तं कालमासीत । अर्धास्तमयादारभ्या-नक्षत्रदर्शनात् । एतावती सन्ध्या । वाग्यत इति वचनादेता-वन्तं कालं न सावित्र्यपि जप्य पश्चात्तु जप्य । तथाच जैमिनीये गृह्ये भारद्वाजगृह्ये च द्रष्टव्यम् । अन्ये तु स्मृतिषु दर्शनात् सावित्र्या जपमिच्छन्ति । वाग्यतवचनं तु लौकिक-वाक्यनिवृत्त्यर्थमित्याहुः ॥ ३ ॥

एवं प्रातः प्राङ्मुखास्तिष्ठन्नामण्डलदर्शनात् ॥ ४ ॥

एवं प्रातः सन्ध्यामुपासीत1 प्राङ्मुखस्तिष्ठन्नासीत आदित्यस्यामण्डलदर्शनात् । उत्तरपूर्वमन्वष्टमदेशमभिमुखः अर्धास्तमितेषु नक्षत्रेषु । तथा गौतमः — ‘तिष्ठेत् पूर्वा-मासीतोत्तरां सज्योतिष्याज्योतिषो दर्शनाद्वाग्यत’ इति । आपस्तम्बस्तूभयोरपि सन्ध्ययोरासनं वाग्यमनं चाह— ‘सन्ध्ययोश्च बहिर्ग्रामादासनं वाग्यतस्ये2ति ॥ ४ ॥

कपोतश्चेदगारमुपहन्यादनुपतेद्वा देवाः कपोत-इति प्रत्यूचं जुहुयाज्जपेद् वा ॥ ५ ॥

कपोतः पक्षिविशेषः स चेदगारमुपहन्यात् तुण्डादिभि-र्घट्टयेद् अनुपतेद्वा तद्दुर्निमित्तम् । तस्येदं प्रायश्चित्तम् । देवाः


Footnotes

  1. 'र्वां सन्ध्यामा' ख. पाठः.

  2. 'ति । तलवकाराणां गृह्यमनुष्ठानं चैवमेव । क' ग. पाठः.