भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 221, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 221

नवमः खण्डः] अनाविलोपेताम् । १६९

स्वयं चतुर्थीं जपेत् ॥ ६ ॥ ते आचरन्तीत्यृचं पुरोहितो जपेत् ॥ ६ ॥

पञ्चम्येषुधिं प्रयच्छेत् ॥ ७ ॥ बह्वीनां पितेत्यृचा इषुधिं तूणीरं प्रयच्छेत् ॥ ७ ॥

अभिप्रवर्तमाने षष्ठीम् ॥ ८ ॥ अथ रथं प्रवर्तयति राजा तस्मिन्नभिप्रवर्तमाने रथे तिष्ठन्नित्यृचं जपेत् पुरोहितः ॥ ८ ॥

सप्तम्याश्वान् ॥ ९ ॥ तीव्रान् घोषानित्यृचाश्वान् योग्यत्वादभिमन्त्रयते पुरोहितः ॥ ९ ॥

अष्टमीमिषूनवेक्षमाणं वाचयति ॥ १० ॥ रथवाहनमित्यृचा इषूनवेक्षमाणं वाचयति ॥ १० ॥

अहिरिव भोगैः पर्येति बाहुमिति तलं नह्यमानम् ॥ ११ ॥ अहिरिव भोगैरित्येतया तलं चर्मादिनिर्मितं हस्तरक्षणं नह्यमानमनुमन्त्रयते । पुरोहितः नह्यमानं राजानं वाचयतीत्यन्ये^२ ॥ ११ ॥

अथैनं सारयमाणमुपारुह्याभीवर्तं वाचयति प्रयोवां मित्रावरुणेति च द्वे ॥ १२ ॥ अथ सारयमाणः सारथिरारोहति तं सारयमाणमुपा-


१. 'अनुमन्त्रयते पु', २. 'न्ये । तलं हस्तरक्षणम् ॥ अ' ख. ङ. पाठः.