भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 231, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 231

तृतीयः खण्डः] अनाविलोपेतुम् । १७९

अथ तृतीयः खण्डः।

अथैतानि पात्राणि योजयेत् ॥ १ ॥
अनन्तरमेतानि वक्ष्यमाणानि पात्राणि योजयेत् मृतस्याङ्गेषु निदध्यात् ॥ १ ॥

दक्षिणे हस्ते जुहूम् ॥ २ ॥
एकवचनस्याविवक्षितत्वात् पाशुकीमप्येवं चातुर्मास्यप्राप्तौम् । एतेनोपभृद् व्याख्याता । सर्वत्र योजयेदिति संबन्धः ॥ २ ॥

सव्य उपभृतम् ॥ ३ ॥
हस्त इत्येव ॥ ३ ॥

दक्षिणे पार्श्वे स्फ्यं सव्येऽग्निहोत्रहवणीम् ॥ ४ ॥
पार्श्वे इत्येव ॥ ४ ॥

उरसि ध्रुवां शिरसि कपालानि दत्सु ग्राव्णः ॥ ५ ॥
दन्तेषु ग्राव्णो योजयेत् । ‘यत्किञ्चित्सोमलिप्तं द्रव्यं तेनावभृथयन्ति’ इत्यभिषवग्राव्णामवभृथे विनियोगात् सोममध्यमृतविषयमेतत् ॥ ५ ॥

नासिकयोः स्रुवौ ॥ ६ ॥
चातुर्मास्ययाजिनस्त्रयः ॥ ६ ॥

भित्त्वा वैकम् ॥ ७ ॥
अथ यद्येकः स्रुवः तं भित्त्वा नासिकयोर्योजयेत् ॥ ७ ॥


१. ‘प’, २. ‘तम्।’ ख. पाठः., ‘सा’ ग. पाठः., ३. ‘चै’ ङ. पाठः.