आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 233, कुल 292 में से
संदर्भ में पढ़ेंतृतीयः खण्डः] अनाविलोपेतम् । १८१
अनुस्तरणया वपामुत्खिद्य शिरो मुखं प्रच्छादये-
दग्नेर्वर्मपरिगोभिर्व्ययस्वेति ॥ १५ ॥
अनुस्तरणीपक्षे तस्या वपामुत्कृत्य प्रेतस्य शिरश्च मुखं च प्रच्छादयेद् अग्नेर्वर्मेति मन्त्रेण ॥ १५ ॥
वृक्कयावुद्धृत्य पाण्योरादध्यादतिद्रवसारमेयौ
श्वानाविति दक्षिणे दक्षिणं सव्ये सव्यम् ॥ १६ ॥
वृक्कयावित्याम्रफलाकृती मांसपिण्डौ । तावुद्धृत्य प्रेतस्य पाण्योरादध्याद् दक्षिणे पाणौ दक्षिणं वृक्कयं सव्ये सव्यम् अतिद्रवेति मन्त्रेण ॥ १६ ॥
हृदये हृदयम् ॥ १७ ॥
प्रेतस्य हृदयेऽनुस्तरण्या हृदयमुद्धृत्यादध्यात् ॥ १७ ॥
पिण्ड्यौ चैके ॥ १८ ॥
एक आचार्या ओदनपिण्डावपि हृदये निदधति । पिण्डीनामानौ मांसपिण्डाविति वा ॥ १८ ॥
वृक्कयावेचार इत्येके ॥ १९ ॥
एक आचार्याः वृक्कयाभावे पिण्ड्यावाधातव्ये मन्यन्ते पाण्योर्हृदये वा ॥ १९ ॥
सर्वां यथाङ्गं विनिक्षिप्य चर्मणा प्रच्छाद्य ॥ २० ॥
सर्वामनुस्तरणीं यथाङ्गम्^२ अनुस्तरण्यास्तत्तदङ्गं प्रेतस्य तस्मिंस्तस्मिन्नङ्गे विनिक्षिप्य तस्या एव चर्मणौ^३ प्रेतं प्रच्छादयेत् ॥ २० ॥
१. 'प' ख. ङ. पाठः.
२. 'ङ्गं यद्यदनुस्तरण्या अङ्गं तत्तत् प्रे' घ. पाठः.
३. 'णा प्र' ङ. पाठः.