आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 236, कुल 292 में से
संदर्भ में पढ़ें१८४ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः
यद्येनं त्रयोऽप्यग्नयो युगपत् प्राप्नुयुः तदा परा ऋ- द्धिर्भवतीति वदन्ति ब्रह्मवादिनः ॥ ५ ॥
तं दह्यमानमनुमन्त्रयते प्रेहि प्रेहि पथिभिः पूर्व्ये- भिरिति समानम् ॥ ६ ॥
प्रेहि प्रेहि पथिभिः पूर्व्येभिरिति पञ्चानां तृतीयामित्या- रभ्य समाप्येत्यन्तं यदुक्तं तदत्र कर्तव्यमित्यर्थः ॥ ६ ॥
स एवंविदा दह्यमानः सहैव धूमेन स्वर्गलोकमै- तीति विज्ञायते ॥ ७ ॥
स प्रेत एवंविदा उक्तं दहनप्रकारं यो वेत्ति तेन द- ह्यमानः सहैव धूमेन यदैव धूम उद्गच्छति तदैव स्वर्गलोक- मेतीति ब्राह्मणं भवति ॥ ७ ॥
उत्तरपुरस्तादाहवनीयस्य जानुमात्रं गर्तं खात्वा- द्भिः पूरयित्वावकाः शीफालमित्यवधापयेत् ततो ह वा एष निष्क्रम्य सहैव धूमेन स्वर्गं लोकमेतीति विज्ञायते ॥
तत एवं कल्पिताद् गर्तादेष प्रेतो निष्क्रम्य । सहैवे- त्यादि गतम् । हवै इत्यव्ययद्वयमयमर्थः सिद्ध इत्यर्थे ॥
इमे जीवा विमृतैराववृत्रन्निति सव्यावृतो व्रज- न्त्यनवेक्षमाणाः ॥ ९ ॥
ततोऽमात्या इमे जीवा इति मन्त्रमुक्त्वा सव्येन भा- गेनावर्तमानाः प्रेतमनवेक्षमाणा व्रजन्ति ॥ ९ ॥
यत्रोदकमवहं भवति तत् प्राप्य सकृदुन्मज्जै- काञ्जलिमुत्सृज्य तस्य गोत्रनाम गृहीत्वोत्तीर्यान्यानि