भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 238, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 238

१८१ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः

त्रिरात्रमक्षारालवणाशिनः स्युः ॥ २ ॥

अपरेद्युरारभ्य त्रिरात्रमश्नन्तोऽपि क्षारं लवणं च नाश्नीयुः ॥ २ ॥

द्वादशरात्रं वा महागुरुषु ॥ ३ ॥

माता पिता पितामहः प्रपितामहः यश्चोपनीय कृत्स्नं वेदमध्यापयति एते महागुरवः । एतेषु मृतेषु द्वादशरात्रं वा त्रिरात्रं वाक्षारालवणाशिनः स्युः । शक्त्यपेक्षो विकल्पः ॥ ३ ॥

दानाध्ययने वर्जयेरन् दशाहं सपिण्डेषु ॥ ४ ॥

“सापिण्डता तु पुरुषे सप्तमे विनिवर्तते” इति हि सपिण्डलक्षणम् । स्मर्यते च —

“उभयत्र दशाहानि कुलस्यान्नं न भुज्यते ।
दानं प्रतिग्रहो यज्ञः स्वाध्यायश्च निवर्तते ॥”

इति । नित्यानि निवर्तन्ते वैतानवर्जं शालाग्नौ चैके । अन्ये एतानि कुर्यादिति च । अन्ये तु दानाध्ययनमात्रप्रतिषेधोऽयम् आशौचं तु शास्त्रान्तरादवसेयमिति स्थिताः ॥ ४ ॥

गुरौ चासपिण्डे ॥ ५ ॥

असपिण्डो गुरुर्मातुलश्वशुरादिः ॥ ५ ॥

अप्रत्तासु च स्त्रीषु त्रिरात्रम् ॥ ६ ॥

सपिण्डासु त्रिरात्रं दानादि वर्जयेत् ॥ ६ ॥


१. ‘णं ना’ ग. पाठः. २. ‘निक्व’ ख. ग. ङ. पाठः.