भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 240, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 240

१८८ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः

दशीत्रयोदशीपञ्चदशीषु एकनक्षत्रे दिवसे कर्तव्यम् । सा दशमी यद्यन्तर्दशाहे भवति तत्रैव कर्तव्यम् । अथ बहिर्दशाहात् संचयनमपि तत्रैव । अपर आह — दशमी रात्रिर्गृह्यते मृताहादारभ्य तस्या ऊर्ध्वमित्यादीति ॥ १ ॥

लक्षणे कुम्भे पुमांसम् ॥ २ ॥

लक्षणे लक्षणयुक्ते शुभे कुम्भे पुमांसं संचिन्वीरन् पुंसोऽस्थीनीत्यर्थः ॥ २ ॥

अलक्षणायां स्त्रियम् ॥ ३ ॥

अलक्षणायां कुम्भ्यां स्त्रियोऽस्थीनि संचिन्वीरन् ॥ ३ ॥

अयुजोऽमिथुनाः प्रवयसः ॥ ४ ॥

व्याख्यातम् । एते संचेतारः ॥ ४ ॥

क्षीरोदकेन शमीशाखया त्रिः प्रसव्यायतनं परिव्रजन् प्रोक्षति शीतिके शीतिकावतीति ॥ ५ ॥

क्षीरमिश्रेणोदकेन ॥ ५ ॥

अङ्गुष्ठोपकनिष्ठिकाभ्यामेकैकमस्थ्यसंह्लादयन्तोऽवदध्युः ॥ ६ ॥

संह्लादः शब्दः, यदि ग्रावाणः संह्लादेरन्निति दर्शनात् । उपकनिष्ठिकानामिका । अङ्गुष्ठोपकनिष्ठिकाभ्यामङ्गुलीभ्याम् एकैकमस्थ्यादाय असंह्लादयन्तोऽस्थ्नां परस्परसङ्घट्टनेन शब्दो यथा न स्यात् तथा कुर्वन्तः कुम्भेऽवदध्युः ॥ ६ ॥

पादौ पूर्वं शिर उत्तरम् ॥ ७ ॥

तत्र पादास्थीनि पूर्वमवदध्युः । ततोऽङ्गान्तराणि क्रमेणाशिरसः । चरमं शिरःकपालम् ॥ ७ ॥