भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 249, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 249

अष्टमः खण्डः] अनाविलोपेतम् । १९७

णम् । एतन्नित्यम् । एतदेवापरपक्षस्य तिष्यन्तरेषु क्रियमाणं काम्यम् । अत्रापस्तम्बः — 'प्रथमेऽहनि क्रियमाणे स्त्रीप्राय- मपत्यं जायत' इत्यादि । अभ्युदया विवाहादयः, तेषु कर्त- व्यमाभ्युदयिकं तत्र । यच्चापरेद्युर्देवेज्या भवति तत्र पूर्वेद्युः क- र्तव्यम् । 'तस्मात् पूर्वेद्युः पितृभ्यः क्रियते उत्तरमहर्देवान् यजन्ति' इति श्रुतेः । प्रेतमेकमुद्दिश्य यद् दीयते तदेकोद्दिष्टम् एक उद्दिष्टोऽत्रेति कृत्वा । तस्य कालो याज्ञवल्क्येनोक्तः — “मृतेऽहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि ॥” इति । प्रथमे वत्सरे प्रतिमासं मृततिथावेकोद्दिष्टं कर्तव्यम् । यच्चाद्ये मासे तदेकादशेऽहन्युत्कृष्यते, न मृतेऽहनि कर्तव्यम् । ततः संवत्सरे सपिण्डीकरणं द्वादशे मासे मृततिथौ । तत्र च प्रेतस्यैकोद्दिष्टं, पित्रादिभ्यः पार्वणम् । तत्र च^१ मासे तदेव मा- सिकम् । प्रथमे संवत्सरे सांवत्सरिकमपि तदेव । द्वितीयादिषु^२ संवत्सरान्ते मृततिथावेकोद्दिष्टम् । एवमेतानि त्रयोदशैकोद्दि- ष्टानि । त्रिपक्षे पूर्णे अपरम् । षट्सु मासेषु पूर्णेष्वपरं मासि- कस्य पूर्वेद्युरपरेद्युर्वा । अन्तर्दशाहे चापरम् । “चतुर्थे पञ्चमे चैव नवमैकादशेऽहनि । यदत्र दीयते जन्तोस्तन्नवश्राद्धमुच्यते ॥” इति पठन्ति । वर्णानुपूर्व्याच्चत्वार्येतानि श्राद्धानि न प्रत्येकं समुच्चितानि नवत्वविरोधात् । प्रथमं हि क्रियमाणमभिनवम् । तदेवमेतानि षोडशैकोद्दिष्टश्राद्धानि । पठन्ति च —


१. 'मे च सां', २. 'षु संवत्सरेषु सं' ख. ग. ङ. पाठः.