भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 251, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 251

अष्टमः खण्डः] अनाविलोपेताम्। १९९

“निमन्त्रयेत पूर्वेद्युर्ब्राह्मणानात्मवान् १ शुचिः।
निमन्त्रितैश्च २ तैर्भाव्यं मनोवाक्कायसंयतैः ३॥”

इति याज्ञवल्क्यवचनात्। तच्च श्वः श्राद्धं भविता तत्रभवता आहवनीयार्थे प्रसादः कर्तव्य इत्येवंरूपम्। “तत्र पितरो देवताः ब्राह्मणास्त्वाहवनीयार्थ” इत्यापस्तम्बवचनात्। स्नातान्। यद्यपि ‘प्राग्वोदग्वा ग्रामान्निष्क्रम्याप आप्लुत्ये’त्यत्र स्नानमुक्तं तथापि तस्यानित्यत्वज्ञापनार्थं पुनः स्नातानित्युक्तं कर्माङ्गतयावश्यं स्नातव्यमिति। कृतपच्छौचान् ‘आर्द्रपादस्तु भुञ्जीत’ इति वचनात् प्राप्तमपि पादशौचं पुनर्विधीयते। कथं, कर्तैव ब्राह्मणानां पादौ प्रक्षालयेदिति आत्मना कृतपच्छौचानिति। आचान्तान् ‘भोक्ष्यमाणस्तु प्रयतोऽपि द्विराचामेदि’ति स्मार्त्ताचमनव्यतिरेकेण कर्माङ्गं तृतीयं विधीयते। उदङ्मुखान् पित्रर्था उदङ्मुखाः। विश्वेदेवार्थौ प्राङ्मुखौ द्वौ।

“द्वौ दैवे प्राक् त्रयः पित्र्य उदङ्ङेकैकमेव वा”

इति याज्ञवल्क्यः। एवंभूतान् ब्राह्मणान् पितृवत् पितृभिस्तुल्यान् मन्यमानः यादृशी पित्रादिषु वृत्तिः तां वृत्तिमास्थायोपवेशयेत्। अपर आह—पितृवदिति वयः परिगृह्यते पितुर्वृद्धान् पितामहस्य वृद्धतरान् प्रपितामहस्य वृद्धतमानिति। उपवेशयंश्च पूर्वं विश्वेभ्यो देवेभ्य उपवेशयेत् प्राङ्मुखौ। कस्य


१. ‘वच्छुचीन्।’ ड. पाठः.
२. ‘तैश्चापि संयतैर्भा’,
३. ‘कर्मभिः॥’ ग. ढ. पाठः.