आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 266, कुल 292 में से
संदर्भ में पढ़ें२१४ आश्वलायनगृह्यसूत्रम् [चतुर्थोऽध्यायः
तम् । यावत्यश्च सेनास्ता अप्यस्यैव । सर्वप्रकाराणि चोच्छ्रय- णानि उच्छ्रूयाः ऐश्वर्याणि तान्यप्यस्यैव ॥ २६ ॥
एवंविद् यजमानं प्रीणाति नास्य ब्रुवाणं चन हिनस्तीति विज्ञायते¹ ॥ २७ ॥
य एवं देवं विदित्वा² याजयति स यजमानं प्रीणा- ति बलेन योजयति । यश्चास्यैवंविदो यजमानस्य ब्रुवाण उ- पदेष्टा³ भवति तमपि देवो न हिनस्तीति ब्राह्मणम्⁴ । चनश- ब्दोऽप्यर्थे । एवं याजयितुर्यजमानस्य च कर्माङ्गं ज्ञानमुप- दिष्टम् ॥ २७ ॥
नास्य प्राश्नीयुर्नास्य ग्राममाहरेयुरनभिमानुको हैष देवः प्रजा भवति⁵ ॥ २८ ॥
अस्य पशोः द्वितीयार्थे षष्ठी अस्य वा संबन्धि कि- ञ्चिदपि न प्राश्नीयुः (ना)स्य संबन्धि किञ्चिदनुपयुक्तमपि ग्राममाहरेयुः । कस्माद्, अनभिमानुको हैष देवः प्रजा भ- वति । अभिपूवों मन्यतिर्हिंसाकर्मा छान्दस उक(न्? ञ्) । ‘न लोकाव्ययनिष्ठाखलर्थतृनाम्’ इत्युकान्तयोगे षष्ठीप्रतिषेधाद् द्वितीया । प्रजानामहिंसको भवति । इतरथा हिंस्यादित्युक्तं भवति ॥ २८ ॥
अमात्यानन्ततः प्रतिषेधयेत् ॥ २९ ॥
अमात्यान् पुत्रादीन् बालान् अस्य कर्मणोऽन्ततः समीपे प्रतिषेधयेत् यथा समीपे नागच्छेयुः तथा कुर्यात् ॥
१. ‘ते ॥ एवं’, २. ‘त्वा यो या’ ङ. पाठः. ३. ‘द्रष्टा’ ग. ङ. पाठः. ४. ‘णं भवति । च’ ख. ङ. पाठः. ५. ‘तीति ॥’ ङ. पाठः.