भारतकोश
आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)

Ashvalayana Grihyasutra Hindi

महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा

स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)

DevanagariHindipublished292 पृष्ठ

पृष्ठ 56, कुल 292 में से

संदर्भ में पढ़ें
पृष्ठ 56

६ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः

ङ्गवचनभेदः, तादृग्रूपं हविः ते तव उक्षाण ऋषभाश्च व- शाश्च भवन्ति । वन्ध्या गावो वशाः । व्याचष्टे — एत एव म उक्षाणश्च ऋषभाश्च वशाश्च भवन्ति । भरद्वाजस्यैषा — य इमं स्वाध्यायमधीयत इति । चलोपोऽत्र द्रष्टव्यः । ये चेमं स्वाध्यायमधीयत इति । न केवलं भरद्वाजस्यैव, किं तर्हि, अन्येऽपि य इमं स्वाध्यायमधीयते तेषामपि एते उक्षाण ऋषभाश्च वशाश्च भवन्ति, द्रष्टव्यतिरिक्तानामप्य- ध्ययनमात्रेण भवन्तीत्यर्थः । यो नमसा स्वध्वर इति व्याख्ये- योपादानं, व्याचष्टे — नमस्कारेण वै खल्वपि । अस्ति प्रीति- रित्यपेक्ष्यते । एतदेवोपपादयति — न वै देवा नमस्कारमति । वै प्रसिद्धौ । न खलु देवा नमस्कारमतिक्रामन्ति । "यज्ञो वै नम" इति हि ब्राह्मणं भवति । ततश्च यथा यज्ञं नातिका- मन्ति, एवं नमस्कारं²मपीति ॥ ५ ॥

इति हरदत्ताचार्यमिश्रकृतायामाश्वलायनगृह्यवृत्तौ प्रथमः खण्डः ।

अथ द्वितीयः खण्डः । अथ सायं प्रातः सिद्धस्य हविष्यस्य जुहुयाद- ग्नयेऽग्निहोत्रदेवताभ्यः सोमाय वनस्पतयेऽग्नीषोमाभ्यामिन्द्रा- ग्निभ्यां द्यावापृथिवीभ्यां धन्वन्तरय इन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे स्वाहेति ॥ १ ॥

अथेमानि गृह्याणि विधीयन्ते, यानि प्राक् प्रतिज्ञा- तानि³ इत्यथशब्दस्यार्थः । सायंशब्दो रात्रेरुपक्रमे प्रसिद्धः


१. 'रं नाति' ख. ग. पाठः. २. 'पि नातिका(मति) ॥ ३. 'नीत्यर्थः' क. पाठः.