आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
पृष्ठ 84, कुल 292 में से
संदर्भ में पढ़ें३४ आश्वलायनगृह्यसूत्रम् [प्रथमोऽध्यायः
जुहुयादित्येके गृहाः पत्नी गृह्योऽग्निरेष' इति । तत्र स्वय- मिति मुख्यः कल्पः । इतरे क्रमेणाभावे विधयः । पाणिग्र- हणादिवचनं गृहप्रवेशनीयादूर्ध्वं मा भूदिति । सायमुपक्रमञ्च परिचरणम् ॥ १ ॥
नित्यानुगृहीतः स्यात् ॥ २ ॥
अनुशब्दः परेऽर्थे । अयमग्निर्नित्यपरिगृहीतः स्याद् यजमानेन पत्न्या वा । अन्यतरोऽवश्यमग्निसमीपे तिष्ठेत् । नोभौ सह¹ प्रवसेतामित्यर्थः । उदयास्तमययोश्चायं नियमः । अन्ये तु नित्यं धार्य इत्यर्थमाहुः ॥ २ ॥
यदि तूपशाम्येत् पत्न्युपवसेदित्येके ॥ ३ ॥
यदि खल्वग्निरुपशाम्येत् पत्न्या उपवासः स्यादि- त्येके मन्यन्ते । अन्ये यजमानस्य । उभयोरपरे । अत्राग्न्यु- त्पत्तिप्रकारानुपदेशात् कल्पान्तरमपेक्ष्यम् । तत्रापस्तम्बः — 'नित्यः धार्यः । अनुगतो मन्थ्यः । श्रोत्रियागाराद् वाहार्यः । उपवासश्चान्यतरस्य भार्यायाः पत्युर्वा । अनुगतेऽपि वोत्तरया जुहुयान्नोपवसेदि'ति । उत्तरया 'अयाश्चाग्न' इत्येतया । सर्व- त्राग्न्युत्पत्तिरेषैव ॥ ३ ॥
तस्याग्निहोत्रेण ॥ ४ ॥
विधिरिति शेषः । तस्य गृह्यस्याग्नेरग्निहोत्रेण विधि- र्व्याख्यातः । तत्र पाकयज्ञतन्त्रं न भवति, होष्यद्धर्मास्तु भव- न्तीति प्रागेवोक्तम् ॥ ४ ॥
१. 'ह देशान्तरं गच्छेता' घ. पाठः.