आयुर्वेद दर्शन
Ayurveda Darshan
वैद्य महादेव चन्द्रशेखर पाठक द्वारा
स्रोत: 1949 Edition · De Ra Ekatara Indoor · 1949 (उद्गम)
पृष्ठ 168, कुल 235 में से
संदर्भ में पढ़ें१४८
आयुर्वेद-दर्शन
“ नेति भगवान् आत्रेयः, सर्वेभ्य एभ्यो भावेभ्यः समुदितेभ्यो गर्भोऽभिनिर्वर्तते । मातृजन्त्राय गर्भः, न हि मातुर्विना गर्भोत्पत्तिः स्यात् न च जन्म जरायुजानाम् । पितृजन्त्राय गर्भः, न हि पितृकृते गर्भोत्पत्तिः स्यात् न च जन्म जरायुजानाम् । यानि खल्वस्य गर्भस्य मातापितृजानि मातापितृतः संभवतः संभवति, तान्यनुन्याख्यास्यामः । तद्यथा त्वक् च लोहितं च मांसं च मेदश्च नाभिश्च हृदयं च क्रोमं च यकृश्च प्रीहा च वृक्कौ च वस्तिश्च पुरीपाधानं च आमाशयश्च पक्षाशयश्च उत्तरगुदं च अघरगुदं च शुद्धात्रां च स्थूलात्रं च वपां च वपावहनं चेति मातृजानि । केशरमश्रुनखलोमदंतास्थि-सिरास्त्रायुधमन्यः शुक्रमिति पितृजानि ।
आत्मजन्त्राय गर्भो, गर्भात्मा हि अंतरात्मा यः, तं ‘जीव’ इत्याचक्षते । शाश्वतमरुजमजरममरमक्षरमभेद्यमच्छेद्यमलोढ्यं विश्वरूपं विश्वकर्माण्म अन्व्यक्तमनादिमानिधनमक्षरमपि स गर्भाशयमनुग्रविश्य शुक्रशोणिताभ्यां संयोगमेत्य गर्भत्वेन जनयत्यात्मानम् । आत्म संज्ञा हि गर्भे, तस्य पुनरात्मनो जन्म अनादित्वात्रोपपद्यते । तस्माद् जात एव गर्भं जनयति, अजातो हि अयम् अजातं गर्भं जनयति, स चैव गर्भः कालांतरणे बालयुवस्थविरतां प्राप्नोति, स यस्यां यस्यामवस्थायां वर्तते, तस्यां तस्यां जातो भवति । या त्वस्य पुरस्कृता, तस्यां जनित्यमाणश्च । तस्मात् स एव जातश्च अजातश्च युगपद्-