आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 10, कुल 232 में से
संदर्भ में पढ़ेंनिवेदनम् । रसमाधव इति प्रसिद्ध आयुर्वेदप्रकाशनामायं ग्रन्थः सारस्वतब्राह्मण- जातीयेन सौराष्ट्रदेशजन्मना वाराणसीनिवासिना उपाध्यायोपनामकेन माधवेन विरचित इति आयुर्वेदप्रकाशस्यान्ते लिखितात् ग्रन्थसमाप्तिवाक्यात् प्रतीयते । स चायमायुर्वेदप्रकाशः ख्रिस्तीयसप्तदशशताब्द्यां विरचित इति प्रतीयते, ख्रिस्तीये १६०० वत्सरे विरचितस्य भावप्रकाशस्य आयुर्वेदप्रकाशे उल्लेखात् । पाकावलिनामकोऽन्योऽपि ग्रन्थ उपाध्यायमाधवविरचितो मुद्रित उपलभ्यते । आयुर्वेदप्रकाशे रसशास्त्रप्रतिपाद्याः प्रायः सर्वेऽपि विषया अतिस्पष्टतया अनुभूति- पथगा एवोपवर्णिताः सन्ति । अतोऽयं ग्रन्थो भिषजां छात्राणां चातीवोपयुक्तः । ग्रन्थस्यास्य मुद्रणार्थमादर्शपुस्तकत्रयमुपलब्धम् । प्रथमं क.संज्ञितं मदीयपरम- सुहृद्भिः वैद्य त्र्यम्बक गुरुनाथ काळे इत्येतैः संपादितं भिषग्विलासपत्रे प्रसिद्धीकृतं अपूर्णं, द्वितीयं ख.संज्ञकं बुन्दीराजधानीनिवासिनां मदीयपरमसुहृदां राजवैद्य श्रीप्रसादशर्मणां सकाशाल्लब्धं, तृतीयं ग.संज्ञकं मदीयपरमसुहृदां स्वर्गवासिनां वैद्य मुरारजीशर्मणां ग्रन्थसंग्रहात् प्राप्तम् । ग्रन्थस्यास्य संशोधनार्थं यथामति कृतेऽपि यत्ने भ्रमप्रमादादिवशाज्जातं स्खलनं क्वाप्युप- लभ्येत चेत् सुधीभिः संशोधनीयं क्षन्तव्यश्चाहमिति यादवशर्मणः ।