आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 141, कुल 232 में से
संदर्भ में पढ़ें१२२ आयुर्वेदीयग्रन्थमाला । [ अध्यायः पादांशं सूतकं दत्त्वा याममम्लेन मर्दयेत् । तत उद्धृत्य पत्राणि लेपयेद्विगुणेन च ॥ ११५ ॥ गन्धकेनाम्लघृष्टेन तस्य कुर्याच्च गोलकम् । ततः पिष्ट्वा च मीनाक्षीं चाङ्गेरीं वा पुनर्नवाम् ॥ ११६ ॥ तत्कल्केन बहिर्गोलं लेपयेद्व्यङ्गुलोन्मितम् । धृत्वा तद्गोलकं भाण्डे शरावेण च रोधयेत् ॥ ११७ ॥ वालुकाभिः प्रपूर्याथ विभूतिलवणाम्बुभिः । दत्त्वा भाण्डमुखे मुद्रां, ततश्चुल्यां विपाचयेत् ॥ ११८ ॥ क्रमवृद्धाग्निना सम्यग्यावद्यामचतुष्टयम् । स्वाङ्गशीतं समुद्धृत्य मर्दयेत्सूरणद्रवैः ॥ ११९ ॥ यामैकं गोलकं तच्च निक्षिपेत्सूरणोदरे । मृदा लेपस्तु कर्तव्यः सर्वतोऽङ्गुलमात्रकः ॥ १२० ॥ पाच्यं गजपुटे क्षिप्तं मृतं भवति निश्चितम् । वमनं च विरेकं च भ्रमं क्लममथारुचिम् । विदाहं स्वेदमूत्क्लेदं न करोति कदाचन ॥ १२१ ॥ चाङ्गेरी चतुष्पत्रा, मीनाक्षी हुनगुंदा पत्रशाकम् । इति ताम्रभस्म । अथान्यः प्रकारः— ताम्रपादांशतः सूतं ताम्रतुल्यं तु गन्धकम् । मर्दयेद्यामयुग्मं तु यावत्कजलिका भवेत् ॥ १२२ ॥ तां तु कन्यारसैः पिष्ट्वा ताम्रपत्राणि लेपयेत् । संशुष्काणि ततस्तानि शेषकज्जलिकान्तरम् ॥ १२३ ॥ निक्षिप्य हण्डिकामध्ये शरावेण निरोधयेत् । सन्धिरोधं द्वयोः कुर्यादम्बुभस्मविलेपनम् ॥ १२४ ॥ हण्डिकां पडुनाऽऽपूर्य भस्मना वा गलावधि । पिधाय चुल्ल्यामारोप्य वह्निं प्रज्वालयेद्दृढम् ॥ १२५ ॥ चतुर्यामं ततः स्वाङ्गशीतलं तत्समुद्धरेत् ।