आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 145, कुल 232 में से
संदर्भ में पढ़ें१२६ आयुर्वेद Bernard? No: आयुर्वेदीयग्रन्थमाला। [अध्यायः वङ्गभस्मकरणं-अस्य शोधनं विशेषशोधनं च प्रागुक्तम् ॥ शुद्धं वङ्गं क्षिपेद्धण्ड्यां चुल्लिकायां शनैः शनैः । तदधो ज्वालयेदग्निं द्रुते वङ्गे क्षिपेत्पुनः ॥ १४८ ॥ अपामार्गं चतुर्थांशं चूर्णं संचालयेदिदम् । स्थूलाग्रया लोहदर्व्या यावत्तद्भस्म जायते ॥ १४९ ॥ अत्र रहस्यम्— चूर्णप्रक्षेपणं कार्यं स्वल्पं स्वल्पं मुहुर्मुहुः । यावद्भस्म भवेद्वङ्गं तावच्चूर्णं समापयेत् ॥ १५० ॥ ततः शरावपिहितं स्थापयेत्तत्र तद्भिषक् । रजः सर्वं ततोऽधस्तात्कुर्यादग्निं तु तीव्रकम् ॥ १५१ ॥ यावदङ्गारवर्णं तद्रजः समुपजायते । स्वाङ्गशीतं ततो ग्राह्यं मारणाय रजः शुभम् ॥ १५२ ॥ प्रकारान्तरं रसपद्धत्याम्— वङ्गे घर्षणकाल एव भिषजः पीतायवानीरजो न्यस्यन्ति क्षणशः शिलाजतु तथा भस्माप्यपामार्गजम् । क्षिप्त्वा रङ्गदलान्यरुष्कपिशितैर्भाण्डे तु चिञ्चात्वचो भूत्या संस्तरसंस्थितानि पुटतः कुर्वन्ति भस्मान्यपि १५३ घर्षणकाले वक्ष्यमाणपलाशदण्डादिना घर्षणे; पीता हरिद्रा, यवानी यवासा, अनयो रजः; क्षणशः क्षणं क्षणं यावत् पिष्टीभवति तावद्भिषजो न्यस्यन्ति; ततो भस्मनः शुद्धयर्थं शिलाजतुं क्षिपन्ति, शिलाजतुरात्र श्वेतो ग्राह्यः सोरकाख्यः; तथेति अपामार्गजं भस्म घर्षणकाले वा क्षिपन्ति । अत्र भस्मी- कृत्य तदुपरि शरावं दत्त्वा तीव्रतरं वह्निं कृत्वा यथाऽङ्गारवर्णं भवति तथा कर्तव्यम् । पश्चात्स्वाङ्गशीतं ग्राह्यम् । मारणार्थं तद्भस्म भवति । प्रकारान्तरं-क्षिप्त्वेति । संस्तरस्तु भस्म दत्त्वा तदुपरि पत्रं, एवं क्रमेण । पुटं गजपुटम् ॥