आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 172, कुल 232 में से
संदर्भ में पढ़ें१२.] आयुर्वेदप्रकाशः । १५३ श्लिष्टमृत्तिकां वा रजनीतोयेन प्रक्षाल्य, क्षुधितं कुक्कुटं मयूरं वा क्रमेण चारयित्वा, तद्विष्ठां कुडवमात्रां गृहीत्वा, क्षाराम्लैः सह पेषयित्वा, विशोष्य, खर्परे दत्त्वा, भर्जनं कुर्यात् । तां मषीं द्रावणवर्गेणैकीकृत्य, मूषामध्ये निवेश्य, घटिकाद्वयं धमेत् । तस्मिन् शीतीभूते खोटकमाहृत्य प्रक्षाल- यित्वा रवकान् संगृह्य टङ्कणं दत्त्वा सुवर्णवद्धमेत् । तस्यैकीभू- तस्य भूनागताम्रस्य मयूरतुत्थताम्रस्य च मिश्रणेन मुद्रिका कार्या, सा प्रोक्तगुणा भवति । सुवर्णेन युक्ताऽपि वा मुद्रिका कार्या, साऽप्यचिन्त्यसामर्थ्या भवति । अथ तदुत्पत्तिमृत्तिकादिकं तु भृङ्गनिर्गुण्डीद्रवैर्द्रावणवर्गेण चैकीकृत्य मर्दयेत्, पश्चाद्दृढ- मूषायां वटकीकृतं प्रक्षिप्य घटीद्वयं धमेत् । तत्पक्वं विचूर्ण्य रवकान् भारवत्तरानणून् द्वादशांशताम्रयुक्तान् कृत्वा धामयित्वा रवकान् कुर्यात् । तेन वज्रादिद्रावणं कुर्यात् । इदं वारद्वयं त्रयं वज्रे दत्तं द्रुतं भवति । इदं तु वज्रस्य पारदस्य (?) द्रावणार्थे परमतेजो भवति । गुणास्तु प्रागुक्ताः । इति भूनागसत्त्वनि- रूपणम् ॥ विशुद्धं तुत्थकं योज्यमञ्जनादौ भिषग्वरैः । अथ कांस्यपित्तलयोरुत्पत्तिनामलक्षणगुण- शोधनमारणानि । अष्टभागेन ताम्रेण द्विभागं कुटिलं युतम् । एकत्र द्रावितं तत्स्यात्कांस्यं सौराष्ट्रजं शुभम् ॥ ५९ ॥ ताम्रं त्रपुजमाख्यातं कांस्यं घोषं च कंसकम् । उपधातुर्भवेत्कांस्यं द्वयोस्तरणिरङ्गयोः ॥ ६० ॥ कांस्यस्य तु गुणा ज्ञेयाः स्वयोनिसदृशा बुधैः । संयोगजप्रभावेन तस्यान्येऽपि गुणाः स्मृताः ॥ ६१ ॥