आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 186, कुल 232 में से
संदर्भ में पढ़ें१३.] आयुर्वेदप्रकाशः । १६७ अथ तासां निन्दामाह— सव्या तत्र शुभा पराः पुनरमूर्दौर्भाग्यदा वर्तुले- ऽप्यन्तर्भेदिनि लग्नकोणिनि पवौ दोषास्त्वकिंचित्कराः । अत्रोक्तानां दोषाणामपवादमाह—वर्तुलेत्यादि । एवंभूते वज्रे अकिंचित्करा निष्फला इत्यर्थः । अथ पवेर्गुणानु- दिशति— अच्छत्वं लघुता तथाऽष्टफलता षट्कोणता तीक्ष्णताऽ- प्येतान् पञ्च गुणान् गृणन्ति गुणिनो देवोपभोग्ये पवौ॥३५ उत्तमे पवौ अच्छत्वमादर्शादिवत्, लघुता तुपवत्, अष्ट- फलकता अष्टफलकता, तीक्ष्णता अन्यमणिभेदकता, एते पञ्च गुणाः । अथोपसंहारव्याजेन खनिं निरूपयति— जातिः प्राक्तु निरूपिता जनिरपि प्रोक्ता खनिस्त्वष्टधा द्वे द्वे तत्र युगे युगे प्रभवतस्तत्रादिमे कोशलः । कालिङ्गस्तदनन्तरे निगदितो वङ्गस्तथा मालवः सौराष्ट्रो मणिपुण्ड्रकस्त्वथ कलौ सोपारवज्राकरौ ३६ आदिमे कृतयुगे, कोशलः कोशलदेशः कालिङ्गदेशश्च; त्रेतायुगे वङ्गदेशः मालवश्च; द्वापरे सौराष्ट्रदेशः मणिपुण्ड्रक- पर्वतश्च; कलौ तु सोपारदेशः वज्राकरो वैरागरश्च 'वैरागड' इति भाषा । अथ मौल्यज्ञानार्थं मानपरिभाषामाह— चत्वारः सितसर्षपाः पनसिका, ते द्वे पुनस्तन्दुल- स्ताभ्यामेव यवो, यवः¹ पुनरयं पिण्डोऽस्ति किंचित्पृथुः । पिण्डो गात्रमिति द्विधा पविवपुः संज्ञाऽस्य संज्ञाभिमां ज्ञात्वा मानमिदं² च तोलनिकया संतोल्य मौल्यं वदेत् ॥३७ १ 'यवः पुनरिति पिण्डशब्दः स्थौल्यवाचकः, अयं वंशयववत्स्थूलः, अ- धिको वा किंचित्' इति रसपद्धतिटीकायां महादेवः । २ 'मानकदण्डतो वत महन्मध्याल्पमौल्यं वदेत्' इति रसपद्धत्यां पाठः ।