आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 202, कुल 232 में से
संदर्भ में पढ़ें१३.] आयुर्वेदप्रकाशः । १८३ पुष्परागं च संधानैः कुलत्थक्वाथसंयुतैः । तन्दुलीयजलैर्वज्रं नीलं नीलीरसेन च ॥ १४९ ॥ रोचनाद्भिश्च गोमेदं वैदूर्यं त्रिफलाजलैः । धृतान्येतेषु संस्विन्नान्याशु शुध्यन्ति दोलया ॥ १५० ॥ लकुचद्रावसंपिष्टैः शिलातालकगन्धकैः । वज्रं विनाऽन्यरत्नानि म्रियन्तेऽष्टपुटैः खलु ॥ १५१ ॥ इति सर्वरत्नभस्मीकरणम् । अत्र कश्चिद्विशेषः— रत्नादीनामलाभे तु ग्राह्यं तस्योपरत्नकम् । मौक्तिकस्याऽप्यभावे तु मुक्ताशुक्तिं प्रयोजयेत् ॥ १५२ ॥ अत्र गुरुचरणाः— न हन्याद्धीरकादीनि नवरत्नानि बुद्धिमान् । महामौल्यानि तेषां तु वधे रौरवमृच्छति ॥ १५३ ॥ तर्हि ऋषिभिः कथं हननक्रियोक्तेति संदेहनिवृत्त्यर्थं परं- परोपदेशप्राप्तं बीजमस्ति; तद्यथा— वज्रादीनां तु संस्कारे क्रियमाणे पतन्ति ये । गात्रेभ्यः खण्डकाः स्वल्पास्तान् हन्याद्बुद्धिमान् भिषक् ॥ यद्वा तत्खनिजाता ये तज्जातीयाः सुलक्षणाः । स्वल्पमूल्यास्तु तेषां हि वधे नास्तीह पातकम् ॥ इति १५५ अन्यच्च— गुणा यथैव रत्नानामुपरत्नेषु ते तथा । तेषु किंचित्ततो हीना विशेषोऽयमुदाहृतः ॥ १५६ ॥ अथोपरत्नेषु वैक्रान्तोत्पत्तिनामगुणशोधनमारणानि । देव्या हते महादैत्ये महिषासुरसंज्ञके । तद्देहरुधिरोद्भूता विन्दवो यत्र यत्र हि ॥ १५७ ॥ पतिता विन्ध्यकाद्रेस्तु दक्षिणोत्तरतो रणे । वज्राकारास्तु ते जाता वैक्रान्ता इति विश्रुताः ॥ १५८ ॥