आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 220, कुल 232 में से
संदर्भ में पढ़ेंआयुर्वेदप्रकाशे प्रमाणतयोपन्यस्तानां ग्रन्थानां ग्रन्थकर्तॄणां च नामानि। १रसपद्धतिः ४-१९ इत्यादौ । २वाग्भटः (रसवाग्भटः) ४-२४ इत्यादौ । ३रसरत्नाकरः ८-२२ इत्यादौ । भास्करः १३-२ इति । ४रसचिन्तामणिः १३-१६ इत्यादौ । महेश्वरः १४-५ इत्यादौ । शिवागमः १४-२६ इत्यादौ । ५रसार्णवतन्त्रं १६-१४ इत्यादौ । बृहद्वशिष्ठपुराणं १७-१२ इति । १ अयं ग्रन्थः श्रीबिन्दुपण्डितविरचितः; तथाच तद्ग्रन्थस्यारम्भश्लोकः,- "नत्वा निष्कपटं निरञ्जनधिया निर्विघ्नमीशप्रियामायुर्वेदविदां मुदे सुभिषजामेषा मया बिन्दुना । ग्रन्थेभ्यः परिगृह्य सारमखिलं सूत्रैश्चिकित्सासखीवृक्षेभ्यः स्रगिव प्रसूननिचयैः संग्रह्यते पद्धतिः ॥" इति । रसपद्धत्युपरि महादेवपण्डितविरचिता टीकाऽपि वर्तते । सटीकाया रसपद्धत्या एकं हस्तलिखितपुस्तकं श्रीनासिकक्षेत्र- निवासिनां मदीयपरमसुहृदां वैद्यवर्याणां 'कृष्णशास्त्री देवधर' इत्येतेषां सकाशाल्लब्धं, आयुर्वेदप्रकाशसंशोधने चैतत्पुस्तकस्य महानुपयोगो जातः । २ अत्र वाग्भटशब्देन रसरत्नसमुच्चयकर्ता रसवाग्भट एवाभिप्रेतः, नतु अष्टाङ्गहृदयतन्त्रकर्ता वाग्भटः । रसरत्नसमुच्चयकर्तारं अग्रे बहुषु स्थलेषु रस- वाग्भट इति नाम्ना स्वयमेव निर्दिशति माधवः । यथा ५९ पृष्ठे, ३ पंक्त्याम् । ३ श्रीनित्यनाथसिद्धविरचितोऽयं ग्रन्थः रसखण्ड-रसेन्द्रखण्ड-वादखण्ड- रसायनखण्ड-मन्त्रखण्डाख्यैः पञ्चभिः खण्डैर्विभक्तः । तेषु रसखण्डो रसेन्द्रख- ण्डश्च कलकत्तानगरे मुम्बय्यां च मुद्रितः, रसायनखण्डस्तु आयुर्वेदीयग्रन्थमालायां मुद्रितोऽस्ति । ४ अयं श्रीरामचन्द्रगुहविरचितो रसेन्द्रचिन्तामणिरेव ज्ञेयः । ५ अत्र प्रमाणतयोपन्यस्ताः श्लोका रसार्णवतन्त्रे ११ पटले उपलभ्यन्ते ।