आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 26, कुल 232 में से
संदर्भ में पढ़ें१. ] आयुर्वेदप्रकाशः । ७ त्रिदिनं स्वेदनाशक्तौ दिनमेकं निरन्तरम् । स्वेदयेद्रसराजं तु नातितीक्ष्णेन वह्निना ॥ ४८ ॥ केचित्तु मर्दनपूर्वकं स्वेदनमिच्छन्ति, ते उपपत्तिज्ञान- रहिताः, क्रमविरोधश्च तेषां (मते) दूषणम् ॥ अथ मर्दनम् । भिषग्विमर्दयेच्चूर्णैर्मिलित्वा षोडशांशतः । सूतस्य गालितैर्वस्त्रैर्वक्ष्यमाणद्रवादिभिः ॥ ४९ ॥ गृहधूमेष्टिकाचूर्णं तथा दधिगुडान्वितम् । लवणासुरिसंयुक्तं क्षिप्त्वा सूतं विमर्दयेत् ॥ ५० ॥ जीर्णाभ्रकं तथा जीर्णं बीजं सूतस्तथैव च । गृह्णाति निर्मलो रागान् ग्रासे ग्रासे विमर्दितः ॥ ५१ ॥ अथान्यत्सिद्धमतम् ।— रक्तेष्टिकानिशाधूमसारोर्णाभस्मचूर्णकैः । जम्बीरद्रवसंयुक्तैर्मुहुर्मर्द्यो दिनत्रयम् ॥ ५२ ॥ दिनैकं वापि सूतः स्यान्मर्दनान्निर्मलः परम् । ऊर्ध्वपातनयन्त्रेण गृह्णीयाच्च पुनः पुनः ॥ ५३ ॥ पटसारणतो वाऽपि क्षालनादारनालतः । अथ मूर्च्छनम् । गृहकन्या मलं हन्ति त्रिफला वह्निनाशिनी ॥ ५४ ॥ चित्रमूलं विषं हन्ति तस्मादेभिः प्रयत्नतः । मिश्रितं मर्दयेत्सूतं सप्तवाराणि मूर्च्छयेत् ॥ ५५ ॥ इत्थं संमूर्च्छितः सूतो दोषशून्यः प्रजायते । सप्तवाराणि मूर्च्छयेदिति धातुवादे, न रसेषु ॥ ५६ ॥ अथान्यन्मतम् ।— [क]न्याशिग्रुशिखिभिर्लवणासुरिसंयुतैः । नष्टपिष्टं रसं कृत्वा लेपयेदूर्ध्वभाण्डके ॥ ७५ ॥