आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)
Ayurveda Prakasha of Madhava Upadhyaya with Commentary
माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा
पृष्ठ 36, कुल 232 में से
संदर्भ में पढ़ें१.] । आयुर्वेदप्रकाशः । १७ शुद्धाः सन्तो मृता अमृता वा यथावचनं योज्या नाशुद्धा इति दिक् ॥ इह खलु पुरुषेण दुःखस्य निरुपाधिद्वेषविषयत्वात्तदभाव- श्चिकीर्षितव्यो भवति, सुखमपि निरुपाधिप्रेमास्पदतया गवे- षणीयं, तदेतत्पुरुषार्थद्वयम् । अत्र स्रक्चन्दनललनादिविषयाणां सत्यपि तत्कारणत्वे (सुखकारणत्वे) नान्तरीयकदुःखसंभेदा- दनर्थपरंपरापरिचितत्वान्मूर्खाणामाकाशोड्रङ्गवदाभासमानत्वा- दनैकान्तिकत्वाद्विरोधिनां युगपद्दृश्यमानत्वादत्यन्ताविरहि- तत्वाच्च परिहरणीयम् । एकान्तात्यन्तः पुनरेतेऽभ्युपायाः खलु हरिहरब्रह्माण इव तुल्या एव संभवन्ति—ज्ञानयोगः, प्राणयोगो, रसयोगश्चेति । ननु, कथमेतेषां तुल्यतेत्यपेक्षायां ब्रूमः—मोक्षोपाये बृहद्वासिष्ठे भुशुण्डोपाख्याने वसिष्ठवा- क्यम्— असाध्यः कस्यचिद्योगः कस्यचिज्ज्ञाननिश्चयः । द्वौ प्रकारौ ततो देवो जगाद परमः शिवः । प्राणानां वा निरोधेन वासनानोदनेन वा ॥ १२५ ॥ इत्यादि तस्मादेतेषां समानत्वमनवद्यम् । तत्राद्ययोः केवलं पक्व- कषायाणामपि कथञ्चन साध्यत्वात्, चरमे पुनर्भोगलोलु- पानामप्यधिकारित्वात्ताभ्यां समीचीनोऽयमिति कस्य न प्रतिभाति । किञ्चास्य भगवन्निर्या॑सकतया सेवकानां स्वसं- भूतसकलधातुत्वापादकस्य भगवतो रसराजस्य गुणसिन्धोः कियन्तो मूर्च्छनाः, ताः प्रसङ्गाल्लिख्यन्ते । अथाव्यभिचरित- व्याधिघातकत्वं मूर्च्छना, तत्प्रकारा बहुविधाः । तत्र १ आकाशोद्रङ्गवद्गन्धर्वनगरवदित्यर्थः । 'कोशाण्डवदाभासमानत्वात्' ख. । 'केशरकस्तूरिकाकोशवदाभासमानत्वात्' क. । २ सुखकारणत्वमिति भावः ।